________________
द्वादशमाह्निकम्
[ शब्दस्य प्रयत्नाधीनत्वम् ]
अपि च प्रयत्नानन्तरीयकत्वमिति कारणादुत्पत्तिरियमभिधीयते, न तु कारणं नियम्यते प्रयत्न एवेति । तत्र पवननोदन जनिततरुशब्दव' त् असत्यपि प्रयत्ने, कारणान्तरं तदुत्पादकं भविष्यति । कारणान्तरजन्येऽप्यनित्यत्वं शब्दे विद्युदादौ वा न विरुद्धमिति ॥
कथं पुनरिदमेव गम्यते - प्रयत्नादिभिर' सन्नु' त्पाद्यते शब्दः, न पुन. समभिव्यज्यत इति -सतोऽनुपलब्धौ निमित्ताभावात् । आवरणं निमित्तमिति चेत् - न - *मूलोदकादिषु मृद इव शब्दे कस्यचिदावरणस्याग्रहणात् । तस्मान्न मूलोदकादिना तुल्यः शब्दः इत्यसन्नेव प्रयत्नादिना क्रियत इति ॥
[ अनुपलब्धिसमः ] तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेः अनुपलब्धिसमः || ५-१-३० ।।
-
'अनुपलब्धेरनुपलम्भोपन्यासेन प्रत्यवस्थानम् – अनुपलब्धिसमः प्रतिषेधः । यदुक्तम् - आवरणानुपलम्भादसत्यावरणे प्रागुच्चारणाद" - ग्रहणादस' नेव शब्दः प्रयत्नेनाभिनिर्वर्यत्त इति तदयुक्तम् - आवरणानुपब्धेरप्यनुपलम्भात् तस्याश्चानुपलम्भादभावः, अनुपलब्धेरभावात् उपलब्धिर्भवति, प्रतिषेधद्वयेन विधेरेव प्रतीतेः । आवरणोपलब्धेिश्वावरणसत्ता सिद्धयतीति तत्कृ' तमेव शब्दस्याग्रहणम्, नासत्त्वकृतमित्यभिव्यंजकमेवास्य प्रयत्नादि कारणमिति ॥
* मूलोदकं — भूमेरन्तः, कूपखननादावभिव्यज्यमानं जलम् ॥
1 त्वादि - ख,
6
स- ख,
2
प्रकृ- खः
त्स - ख,
3
667
साधु-च,
"
य - खं,