SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ 666 न्यायमञ्जरी इति चेत्-समानो व्याघातः । तेन हि परपक्षवत् स्वपक्षोऽपि प्रतिहन्यत *'इति। न हि व्याघात एक पक्षं साधयति, एकं बाधत इति || [ उपलब्धिसमः] निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमःप्रतिषेधः॥ निर्दिष्टस्य साध्यधर्मसिद्धिकारणस्याभावेऽपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानं-उपलब्धिसमः प्रतिषेधः। यदेतदनित्यतायां शब्दस्य प्रयत्ना नन्तरीयकत्वं कारण मुपदिष्टम्, तस्याभावेऽपि प्रबलप्रभंजनजवभज्य. मानजरत्पादपपातप्रभ वेऽपि' शब्दे दृश्यत एवानित्यत्वम् । अन्यत्रापि विद्यदादौ विनाऽपि प्रयत्नानन्तरीयकत्वमुपलभ्यत एवानित्यतेति ॥. . अस्योत्तरम् - कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥५-१-२९ ॥ अत्रंतदेव तावद्वक्तव्यं सपक्षकदेशवृत्तित्वमिदमस्य हेतोरुद्भावितम्। न च सपक्षकदेशवृत्तिरगमकः। प्रयत्नानन्तरीयकत्वमनित्यत्वे प्रतिबद्धम्, न पुनरनित्यं प्रयत्नानन्तरीयकत्वे । 'यत्प्रयत्नानन्तरोयकम्, तदनित्यम्' इति हि व्याप्तिः, न तु 'यदनित्यम्, तत्प्रयत्नानन्तरीयकम्' इति । यथा 'यत्राग्निस्तत्र धूमः' इति न। 'यत्र धूमस्तत्राग्निः' इति ॥ . एवं प्रयत्नानन्तरीयकत्वमन्तरेण समीरणरयपात्यमानवनस्पत्यादि. शब्दे विद्युदादौ वा येयमनित्यतोपलब्धिः, न सा तस्य हेतुतामपहन्तीति ॥ * इष्टापत्तौ च केवलबैतण्डिकः स्यात् । एतस्य तु वादे नाधिकारः ॥ 1 एव-ख, 'य-ख, म-ख, वे-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy