________________
द्वादशमाह्निकम्
665 किंचिद्धि सत्त्वयोगि भाव'जात'मनित्यं भवति, किंचिन्नित्यमिति नायमेकान्तः-सत्त्वादनित्याः सर्वे भावा इति ।
अपि च सर्वभावानामनित्यत्वे साध्यमाने तदन्तर्गतत्वाच्छब्दस्याप्यनित्यत्वमभ्युपगतं भवेदित्येवमप्ययमप्रतिषेधः ॥
___ [उपपत्तिसमः] उभयकारणोपपत्तेरुपपत्तिसमः ॥ ५.१.२६ ॥ उभयकारणोपपत्त्या पक्षद्वयोपपत्तिवर्णनम्-उपपत्तिसमः प्रतिषेधः ॥
यद्यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते शब्दस्येति अनित्यः शब्दः, नित्यत्वकारणमपि निरवयवत्वमस्योपपद्यत इति नित्यः स्यात् । उभयत्रापि कारणोपपत्तेः॥
ननु सैवेयं साधादिसमा प्रकरणसमा वा जातिः, न भेदान्तरम्मैवम्-उद्भावनाप्रकारेण भेदात् । परपक्षोपमर्दबुद्धया साधादिसमा जातिः प्रयुज्यते। पक्षान्तरोत्थापनास्थया प्रकरणसमा। अप्रतिपत्ति. पर्यवसायित्वाशयेनेयमुपपत्तिसमेति ॥
अत्रोत्तरम्
उपपत्तिकारणानुज्ञानादप्रतिषेधः ॥ ५-१-२७ ॥ - 'उभयकारणोपपत्त्या प्रतिषेधमभिदधता पक्षद्वयकारणोपपत्तिः अनु. ज्ञाता भवति। सा चेदनुज्ञाता कथमेकतरपक्षप्रतिषेधः। एकतरपक्षप्रतिषेधश्चेत् कथमुभयकारणोपपत्तिः। उभयपक्षकारणोपपत्तिः एकतरपक्षप्रतिषधश्चेति विप्रतिषिद्धम् । व्याघातादेव ततपक्षप्रतिषेधो ऽवकल्प त
1 रूप-ख
विकल्पयिष्य-ख.