________________
664
न्यायमञ्जरी अविशेषोपपादनेन प्रत्यवस्थानं अविशेषसमः प्रतिषेधः। यदि शब्दघटयोरेकधर्मः प्रयत्नानन्तरीयकत्वमस्तीति तयोरनित्यत्वाविशेष उच्यते-तहि सर्वभावानामविशेषप्रसङगः। कथम् ? सद्भावोपपत्तेःसत्तासंबन्धादित्यर्थः। सोऽयमविशेषसमः प्रतिषेधः॥
एतस्योत्तरम्क्वचित्तद्धर्मोपपत्तेः क्वचिदनुपपत्तेः प्रतिषधाभावः
॥५-१-२५॥ क्वचिदविशेषापादनहेतुरुपपद्यते धर्मः, क्वचित्तु नोपपद्यत इत्येवमयम प्रतिषेधः। शब्दघटयोरेको धर्मः प्रयत्नानन्ततरीयकत्वमस्ति, येन तयो. धर्मान्तर'मनित्यत्वम विशेषरूपमुपपाद्यते। न तु सर्वभावानामीदृशम विशेषकारणं धर्मजातमस्ति ॥ ____ यत्तु सद्भावोपपत्तेरिति, तेन किं धर्मान्तरमविशेषरूपं साध्येत? अनित्यत्वमेवेति चेत , तीयं प्रतिज्ञार्थो व्यवतिष्ठेत 'अनित्याः सर्वे भावाः, सत्त्वात्' इति । स चायमनुपपन्नः दृष्टान्तानुपपत्तेः। सर्व. भावानां पक्षीकृतत्वात् दृष्टान्तो न कश्चिदवशिष्यते। न च' प्रतिज्ञातकदेश एव दृष्टान्तीकर्तुं शक्यः, सिद्धसाध्यभेदात् । सांध्यः प्रतिज्ञातोऽर्थो भवति, सिद्धश्च दृष्टान्तः। न च दृष्टान्तरहितो हेतुः स्वसाध्योपस्थाप. नसामर्थ्यमश्नुते ॥
न च सौगतोक्तनीत्या नित्येभ्यो व्यापकानपलब्ध्या सत्त्वं व्यावर्तित मनित्येष्वेव प्रतिष्ठां लभते। यैव विपक्षाद्व्यावृत्तिः स एव साध्येनानु: गम इति वक्तव्यम्-तन्नीतेः प्रागेव प्रतिक्षेपात् । प्रत्युक्तं हि विस्तरतः क्षणभङगसाधनमिति ॥
'म-ख.
'प-ख,
न-ख,
'तेः-ख.