SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ द्वादशमाह्निकम् अत्रोत्तरम् - प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ।। ५.१.१७ ॥ निर्णयोत्पत्त्या प्रकरणं पर्यवसितं भवति । प्रा'ङ' निर्णयात् तदवस्थमेव । तदिह प्रकरणमुत्थापयता भवता उभयसाधर्म्यं तदुत्थापनकारणमभिहितम् उभयसाधर्म्यात् प्रक्रियासिद्धेरिति ब्रुवता | भा 1 च - मदुक्तमपि साधर्म्यमस्त्येव, अन्यथा उभयशब्दार्थः कः ? एवं च तदभ्यनुज्ञातं भवतीति तत्प्रतिषेधो नोपपद्यते । प्रतिषेधोपपत्तौ वा नोभयसाधर्म्यं प्रकरणकारणं सिध्यतीति । निर्णयोत्पत्तिनिमित्तं च प्रकरणोपरमाय न किचिदुक्तम् * उभयसाधर्म्याभिधानादिति ॥ [ अहेतुसम: ] त्रैकाल्यानुपपत्तेर्हेतोर हे तुसमः ॥ ५.१.१८ ॥ कालत्रयानुपपत्त्या हेतुमाक्षिप्य क्रियमाणः प्रतिषेधः अहेतुसमो• भवति । हेतुः साधनम् । साधनं च साध्यात् पूर्वं पश्वाद्वा सह वा भवेत् ? यदि पूर्वम्, अ' सति साध्ये तत् कस्य साधनम् ? अथ पश्चात् * साधनं, पूर्वं साध्यम् ; तद' सति साधने कस्येदं साध्यं भवेत् । ' पूर्वसिद्धे वा साध्ये किं साधनेन ? अथ युगपत् साध्यसाधने भवतः, न तहि तयोः सव्येतर गोविषाणयोरिव साध्यसाधनभावो भवेत् — इत्येवमयं हेतुः अहेतोर्न विशिष्यते ॥ * अतश्च त्वया मत्पक्षः न निरस्त एवेति ममैव जयः ॥ 1 गुक्त-ख, 2 अ- ख, साधनं तद - ख, 661 4 अ- ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy