________________
662
न्यायमञ्जरी अस्योत्तरम्न हेतुतस्साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥ ५.१.२० ॥
न काल्यासिद्धिः। कस्मात् ? हेतुतः साध्यसिद्धेः। उत्पत्तौ तावदयं पर्यनुयोगः, पूर्वसिद्धन हेतुना तन्त्वादिना पश्चाद्धाविनोऽसत एव कार्यस्य पटादेः सिद्धिरित्युक्तत्वात्। 'बुद्धिसिद्धं तु तदसत्' (न्या.सू. 4-1-50) इति । ज्ञप्तावपि परिहत एष दोषः, उपलब्धिहेतोः उपलब्धि विषयस्य चार्थस्य पूर्वापरसहभावानियमात् । यथादर्शनं. व्यवस्थेति प्रमाणपरीक्षयामभिधानात्। दृश्यते च निवर्तनहेतुना निर्वर्तनीयनिर्वृत्तिः, उपलब्धिहेतुना च उपलभ्यस्योपलम्भः इति। प्रमाणसिद्धे च वस्तुनि कोऽयमाक्षेपः ?
प्रतिषेधे च तुल्योऽयमनुयोग इत्याह*प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥ ५-१-२०॥
प्रतिषेधोऽपि प्रतिषेध्यात् पूर्व, पश्चात् , सह वा भवेत् ? इति विकल्प्यमाने न प्रतिद्धव्यं प्रतिषेधुमुत्सहत इति ॥
[अर्थापत्तिसमः ] . ' अर्थापत्तितः प्रतिपक्षसिद्धरापत्तिसमः ॥ ५-१-२१ ॥
अर्थादापद्यते प्रतिपक्षसिद्धिः-इत्येवं क्रियमाणः प्रतिषेधः अर्थापत्ति समो भवति । पूर्वस्मिन्नेव प्रयोगे-यदि घटसाधात् प्रयत्नानन्तरीय
* 'प्रमाणस्यैव कस्यचिदभावात् 'प्रमाणसिद्ध वस्तुनि' इति कथम् ?' इति यदि प्रत्यवतिष्ठत तदा प्रतिबन्धेवोत्तर मित्यर्थः॥