________________
660
न्यायमञ्जरी नाभ्युपगभ्यते। तस्मादप्रतिषेधोऽयं नित्यसामान्यसाधर्म्यनिबन्धनसंशया. पादनरूपः ॥
[प्रकरणसमः ] उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥ ५.१.१६ ॥
पक्षप्रतिपक्षौ निर्णयलक्षणे व्याख्यातौ। तावेव प्रकरणम्। प्रक रणमनतिवर्तमानः प्रकरणसमः प्रतिषेधो भवति । पूर्वस्मिन्नेव प्रयोगे 'नित्यः शब्दः, निरवयवत्वात् , आकाशवा' इत्येवंजातीयकं प्रतिप्रयोगमुपन्य स्य' स्वपक्षमुत्थापयति जातिवादी। साधर्म्यग्रहणं चोपलक्षणम् । वैधयेणापि प्रतिप्रयोगोपन्या से प्रकरणसम एव प्रतिषेधो भवति। उभयवैधात् प्रक्रियासिद्धेः प्रकरणसम इति । मूलहेतावपि साधर्म्यण वैधhण वा प्रयुक्ते प्रयोगद्वयमेतद्वेदितव्यम् ॥ .
- [प्रकरणसमस्य साधर्म्यवैधर्म्यसमाभ्यां विशेषः ] ननु च ! ते एवैते साधर्म्यवैधर्म्यसमे जाती साधर्म्यहेतौ वैधर्म्यहेतौ वा प्रयुज्यमानत्वाच्चतुर्धा स्थिते इति ताभ्यामेव गतत्वात् नाभिनवोऽयं जाति. प्रयोगः। चतस्रश्चैता जातय इत्येकत्वमपि न सङगतम्-उच्यते-तत्र पर पक्षप्रतिषेधप्रवणतयैव प्रत्यवस्थानमुदाहृतम् , 'इह तु पक्ष साधनच्छाय. येति। अत एव प्रकरणसमोऽयमुच्यते जातिः। अनित्यपक्षवन्नित्य पक्षेऽपि प्रतिक्रियतेऽस्यामिति । उद्धावनभङगिभेदाच्च जातिनानात्वम् । असङकीर्णोदाहरणविवक्षया चतुर्विंशतिभेदत्वम्। वस्तुतस्तु तासामान न्त्यमित्युक्तम् ॥
___ * सर्वत्र एतादृशसाधर्म्यवैधय॑योस्सुलभत्वेन सर्वत्र सदा संशय एव स्यात् ॥
1 स्यन्-ख
सेन-च,
3 च तवोत्थिते-ख,
इहैव-ख,
5
यं-ख.