________________
द्वादशमाह्निकम्
____659 भावो भवति, नानुत्पन्नस्य । उत्पन्नः खल्वयं शब्द इति भवति नानुत्पन्नः। प्रागुत्पत्तेरलब्धात्मनः किमुच्यते ? लब्धस्वरूपस्य पुनः अनित्यत्वकारणप्रयत्नानन्तरीयकत्व'स्य सद्भावादयुक्त एवायं प्रतिषेधः ॥
[संशयसमः] नित्यानित्यत्वसाधर्म्यात्संशयः ॥ ५.१.१४ ॥ नित्य नित्यसाधोपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः प्रतिषेधः। 'अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात्' इत्यस्मिन्नेव हेतौं 'अस्ति शब्दस्यानित्य साधयं प्रयत्नानन्तरीयकत्वम् , अस्ति च नित्येन सामान्येन साधम्र्य ऐन्द्रियकत्वम्। अतः किमनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वात् अनित्यः शब्दः, उत नित्यसाधात् ऐन्द्रियकत्वानित्यः' इति संशयः-एवं परः प्रत्यवतिष्ठते। न च साधर्म्यसमप्रयोग एवायमाशङकनीयः, संशयापादनप्रवणत्वावस्येति ॥
अस्योत्तरमसाधर्म्यात्संशये न संशयः वैधादुभयथा वा संशयेऽत्यन्त. ... संशयो नित्यत्वानभ्युपगमाच्च सामान्यस्थाप्रतिषेधः
॥५.१.१५॥ - स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोस्साधादूर्ध्वत्वादेः संशयो भवति, न तु शिरःपाण्यादिवैधात् । प्रत्युत ततोऽसौ निवर्तते। यदि पुनरुभयथाऽपि साधादिव वैधादपि संशयः स्यात् तथा सत्य'त्यन्त. संशयः* प्राप्नोति । इह चनि विशेषदर्शनस्थानीयमनित्यत्वसाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति नित्यत्वं सामान्यगतं संशयकारणमिति
* सर्वत्र एतादृशसाधर्म्यवैधययोः सुलभत्वेन सर्वत्र सदा संशयः स्वात् ॥
1 स-ख,
वसा-ख.
नन्त-ख,