________________
658
न्यायमञ्जरी दृष्टान्तः न हि साधकः स्यात् । न च तदस्तीत्युक्तम् । अतो 'ना हेतु. दृष्टान्तः ॥
अथ यथा प्रतिदृष्टान्तो न साधकः, एवं दृष्टान्तोऽपि मा भूदित्यनया नीत्या प्रत्यवतिष्ठते, 'स हन्त तहि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन कथितमिति तस्मिन्नसाध के सति दृष्टान्त एव साधक इति ||
[अनुत्पत्तिसमः] प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ ५.१.१२ ॥
अनुत्पत्त्या प्रत्यवस्थानम्-अनुत्पत्तिसमः प्रतिषेधः। प्राक्तन एवं प्रयोगे जातिवाद्याह-अनित्य इत्युत्पत्तिधर्मक उच्यते। यश्चोत्पत्ति. धर्मकः, तस्योत्पत्तेः पूर्वमनुत्पत्त्या भवितव्यम् । अनुत्पन्ने च शब्दाख्य धर्मिणि प्रयत्नानन्तरीयकत्वं धर्मः क्व वर्तताम् ? अलब्धपक्षवृत्तिश्च कथ. मनित्यत्वं साधयतु। असिद्धे चानित्यत्वे शब्दस्य बलान्नित्यत्वमेव भवति कारणाभावादिति। अनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकत्वस्या. भावादित्यर्थः। 'अथवा' शब्दोत्पादककारणाभावादनुत्पन्ने शब्दे निरा. श्रयो हेतुरिति ॥
अस्योत्तरम्तथाभावादुत्पन्नस्य कारणोपपत्तेः न कारणप्रतिषधः
॥५-१-१३।। शब्दाख्यधर्मिणः सिद्धस्य सतः नित्यत्वमनित्यत्वं वा विचार्यते । तदसिद्धौ हि नित्यत्वमपि कस्य भवानभिदधीत? उत्पन्नस्य चास्य तथा
* अन्यथा उत्पत्तिः कथम् ?
1 न-ख,
ह-ख,
के-ख,
तथा च-खं.