________________
- द्वादशमाह्निकम्
ननु ! एवमपि व्यभिचारोद्भावनमेतत् सम्यगुत्तरम्, नासदुत्तरप्रकारो जातिप्रयोगः - नैतदेवम्-न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी प्रत्यवतिष्ठते । अपि तु 'प्रतिदृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जातिप्रयोग एवायम् । हेत्वाभासा अपि स्वरूपनि' गूहन' पुरस्सरमपर हेतु प्रतिबिम्बवर्त्मना प्रदर्श्यमाना जातितां प्रतिपद्यन्त एव ॥
अत्र प्रसङ्गसमस्य तावदुत्तरमाह
प्रदीपोपादानप्रसङगविनिवृत्तिवत्तद्विनिवृत्तिः ॥५-१-१० ॥
असिद्धं हि नाम साध्यते, न सिद्धम् ; तत्र प्रयत्नवैफल्यात् । सान्ध कारे हि सद्मनि पिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिकाः, न दीप दर्शनाय दीपान्तरमाहरन्तीति । अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः । एवं लौकिकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात तत्र कारणापदेशो निष्प्रयोजन इति । तस्मान्नायमपितप्रसङगा पादनस्य विषयः ॥
अथ प्रतिदृष्टान्त समस्योत्तरम् -
प्रतिदृष्टान्तहेतुत्वे च नाहेतुई अन्तः ॥ ५- १.११ ॥
न
प्रतिदृष्टान्त एव साधकबुद्धया यदि त्वयोपन्यस्तः तहि विशेषहेतुवक्तव्यः, अनेन हेतुना प्रतिदृष्टान्त एव साधकः, न दृष्टान्त इति । चासौ विशेषे हेतुरुच्यते । तस्मान्न प्रतिदृष्टान्तः * सिद्धि' हेतुरिति दृष्टान्त एव - साधको भवति । प्रतिदृष्टान्तहेतुत्वेऽपि स्थिते सति अहेतु -
सिद्धस्यैव खलु हेतुत्वं दृष्टान्तत्वं वा ॥
5
*
1
द्ध-च.
दृ-ख,
2
ग्रह - ख,
3
प्र-ख,
4 त्वेन - ख,
657
42