SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ 656 न्यायमञ्जरी नायं प्रतिषेध उपपद्यते, उभयथाऽपि कारणभावस्य दर्शनात् । दण्डचक्रवत्रादिकार'का'नि प्राप्य मृदं घटादिकार्य निष्पादयन्ति दृश्यन्ते । अभिचारकर्मणा च श्येनादिना दूरस्थस्यापि शत्रोः पाटनं संपाद्यते इति ॥ [प्रसङ्ग-समप्रतिदृष्टान्तसमौ] दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाञ्च प्रतिदृष्टान्तेन प्रसंगप्रतिदृष्टान्तसमौ ॥ ५.१.९॥ अतिप्रसङगापादनेन प्रत्यवस्थानं प्रसङगसमः प्रतिषेधः। पूर्वोदाहृत एव हेतौ यद्यप्यनि त्यत्वे प्रयत्नानन्तरीयकत्वं साधनम् । प्रयत्नानन्तरीयकत्वे इदानी कि साधनम् ? तत्साधने, किम् ? इति दृष्टान्तस्य घटादेरनित्यतायां कारणं 'न कि चिदपदिश्यते। तेन तत्कारणान्वेषणा. तिप्रसङगात् प्रसङगसमोऽयं प्रतिषेधः ॥ . [प्रतिदृष्टान्तसमः] . प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः प्रतिषेधः । यथाघटः प्रयत्नानन्तरीय कस्सन् अनित्यो दृष्टः, एवमाकाशं प्रयत्नानन्तरीयक नित्यं दृश्यते, तद्वच्छब्दोऽपि नित्यः स्यादिति। कः पुनराकाशस्य प्रयत्ना मन्तरीयकत्वं वदेत् ? कूपखननादिनाऽऽकाशकरणं मन्वान एवं ब्रूयादपि कश्चित् ॥ * सत्य, साध्यसाधनयोः संबन्ध आवश्यकः । वह्निधूमयोः प्रतिबन्धः, भभिचारादावुद्देश्यस्वं चास्स्येव । न हि एकरूपस्संबन्धः सर्वक्रेत्याशयः ॥ . 1 णा-ख, मा-ख. पीडन-ख, नि-ख, किं-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy