________________
द्वादशमाह्निकम्
अथ षष्ठस्योत्तरम् -
साध्यातिदेशाच्च दृटान्तोपपत्तेः ॥ ५- १.६ ॥
यदुच्यते घटोsपि शब्दवत् साध्यो भवत्विति - तन्नैवम् - लौकिकपरी intri after बुद्धिसाम्यम्, स दृष्टान्तः । तेनाविपरीततया शब्दे प्रतिदिश्यते । . यथा घटः प्रयत्नानन्तरीयकः सन् अनित्यः, एवं शब्दोऽ पीति । एवं साध्यातिदेशात् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभि धनमुपपद्यते * ॥
655
[प्राप्तिसमप्राससमौ ]
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्याविशिष्टत्वादप्राप्या. साधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥ ५.१.७ ॥
प्राप्त्यप्राप्ति विकल्पन पूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ. प्रतिषेधौ भवतः । हेतौ साधनवादिना प्रयुक्ते पर आह- 'सोऽयं हेतु प्राप्य वा साध्यं साधयेत्, अप्राप्य वा ?' प्राप्य चेत्, द्वयोर्लब्धस्वरूपयो'रेव' प्राप्तिर्भवतीति । कि कस्य साध्यम्, साधनं वेत्यविशेषः । . अप्राप्य तु साधकत्वमनुपपन्नं, अतिप्रसङ्गात् । न ह्यप्राप्य प्रदीपः प्रकाश्य प्रकाशयेदिति ॥
अनयोरुत्तरम् -
घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥ ५.१.८ ॥
न दृष्टान्तदाष्टन्तिकयोरभेदः, अभेदे तदसंभवात् । अतः सर्वत्र संप्रति
पत्तिरावश्यकी ॥
1 र-ख.