________________
654
न्यायमञ्जरी प्रतिषेधौ भवतः। यदि शब्दः नित्यत्वेन वर्ण्यते-साध्यते, घटोsपि वर्ण्यतामिति वर्ण्यसमः। घटश्चेन्न वर्ण्यते, शब्दोऽपि मा व त्यवर्ण्यसमः ॥
[विकल्पसमः] धर्मान्तरविकल्पेन प्रत्यवस्थान विकल्पसमः प्रतिषेधः। तत्रैव प्रयो गे'-प्रयत्नानन्तरीयकं किंचिन्मृदु दृष्ट, दुकूलराङकवशय्यादि ; किंचित् कठिनं, कर्परपरश्वधादि। एवं प्रयत्नानन्तरीयकं किंचिदनित्यं भविष्यति घटादि, किंचिन्नित्यं शब्दादीति* ||
[साध्यसमः ] उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्य समः प्रतिषेधः। यदि यथा घटस्तथा शब्दः, प्राप्तं तहि यथा शब्दः तथा घट इति। शब्दश्च अनित्यतया साध्य इति घटोऽपि साध्य एव . स्यात् । अन्यथा हि न तेन तुल्यो भवेदिति ॥ . __ अत्र पंचानामुत्तरम्किञ्चित्साधादुपसंहारीसवधादप्रतिषेधः ॥५-१-५ ।।
किंचित्साधादुपसंहारः सिद्धयति-'यथा गौः, एवमयं गवयः' इति। न तु सर्वथा रूपाभेदः तयोः "आपादयितुं शक्यः। , प्रमाणावगतस्वभावभेदानां भावानामितरेतररूपसंकरस्य कर्तुमशक्यत्वात् । एवंच स्वप्रतिबन्धसाधर्म्य सुस्थिते स्वसाध्यमुपस्थापयति स्थापनाहेतौ साध्यदृष्टान्तयोधर्मविकल्पमापादयता वैधम्यं च किंचिदभिदधता प्रतिषेधः कर्तुं न लभ्यत इति ॥
* अतो न निर्णयः कर्तुं शक्यत इति ॥ + साधर्म्य, वैधयं वा न स्वेच्छया निणेतुं युक्तमिति सारम् ॥
1 गः-ख,
' कर्तु-ख.
' बिम्बसामर्थे-ख.