________________
653
द्वादशमाह्निकम्
[उत्कर्षादिसमाः] साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षा
पकर्षवर्ध्यावर्ण्यविकल्पसाध्यसमाः ।। ५.१.४॥ दृष्टान्तधर्म साध्ये धर्मिणि योजयन्-असन्तमध्यारोपयन् उत्कर्षण प्रत्यवस्थानं यत् करोति, स उत्कर्षसमः प्रतिषेधः । यथा-अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् , घटवत्-'इत्युक्ते, अपर आह-यदि प्रयत्ना. नन्तरीयकत्वात् , घटवद नित्यः शब्दः, घटवदेव मूर्तोऽपि भवति। न चेन्मूर्तः, घटवदनित्योऽपि 'मा' भूदिति मूर्तत्वस्य धर्मान्तरस्य प्रसंजनमुत्कर्षसमः ॥ .
[ अपकर्षसमः] दृष्टान्तधर्मविकल्पनेनैव साध्यमिणि सिद्धस्यापि धर्मस्यापकरण प्रत्यवस्थानमपकर्षसमः। पूर्वस्मिन्नेव प्रयोगे, घटः खलु प्रयत्नानन्तरीय. 'कस्सन् अश्रावणो दृष्टः, एवं शब्दोऽपि प्रयत्नानन्तरीयक त्वादश्रावणो. ऽस्तु। न चेदश्रावणः, घटवदनित्योऽपि मा भूदिति सतः श्रावणत्वस्यापसारणमपकर्षसमः ॥
[वर्ण्यसमः, अवर्ण्यसमः] .. ख्यापनीयः-वर्ण्य:/-प्रतिपिपादयिषितः साध्यधर्मः। तद्विपर्य यात अवर्ण्य:-सिद्धः दृष्टान्तधर्मः। तावेतौ 'वावण्यौ विपर्यस्यन्इतरमितरेण समीकुर्वन् प्रत्यवस्थानं यत करोति, तौ वावर्ण्यसमौ
* साधर्म्यमात्राद्वस्तुसिद्धिश्चेत्, सत्तासाधात् गौरप्यश्वो भवेत् ॥ + वर्ण्य:-प्रकृत इति यावत् ॥
1 अ-ख,
' तद्धर्मो मा-ख,
'क-ख,
'व-खे.