________________
652
न्यायमञ्जरी विशेषहेतुः, घटसाधात् प्रयत्नानन्तरीयकत्वात् अनित्यः शब्दः, न पुनः घटवैधात् निरवयवत्वात् नित्य इति ||
वैधर्म्यहेतावपि साधनादिना प्रयुक्ते, अनित्यः शब्दः, प्रयत्नानन्त. रोयकत्वात् , यदनित्यं न भवति, तत् प्रयत्नानन्तरीयकमपि न भवति , आकाशादिवत्-इत्यत्र एतदेव पूर्वोक्तं साधर्म्यवैध→प्रत्यवस्थानद्वयमुदा. हर्तव्यमिति ॥
यथा क्वचिदवसरे स्वयं प्रयोगो जातीनामुपयुज्यत इति तत्स्वरूप. व्युत्पादनमुपकान्तम् एवं पर प्रयुक्तानां तासां *उत्तरमपि वक्तव्यम् ।अतस्तद्व्युत्पादनार्थमाह
गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ॥ ५.१.३ ॥ साधर्म्यवैधर्म्य समयोरिदमुत्तरम् । यदि साधर्म्यमात्रं वैध Hमात्र वा साध्यसाधनं प्रतिज्ञायेत, स्यादियमनवस्था। भवेच्च भवत्प्रयुक्तानामीदृशामपि स्थापनाहेतोरविशेषः। विशिष्टं तु साधयं वैधयं वा प्रयोजक मुच्यमानं नैवंविधः प्रत्यवस्थानः उपहन्यते। यथा सत्यपि सत्तादिसामान्यसंबन्ध, सत्यपि शुक्लादिगुणसंबन्धे, सत्यपि चलनादिकर्मयोगे न गौः त'थात्वेन तत्साधात् सिद्धयति, अश्वादिवैधाद्वा, किन्तु अव्यभिचारिणः गोत्वादिसंबन्धादेव। तथहाप्यस्खलितनियमं साधयं, वैधयं वा साध्यसिद्धिनिबन्धनम् , न साधादिमात्रमिति ॥
* अन्येनासदुत्तरे दत्ते तत्र समीचीनोत्तरादाने पराजयः॥ + साधर्म्यमात्राद्वस्तुसिद्धिश्चेत्, सत्तासाधात् गौरप्यश्वो भवेत् ॥
* सिद्धिः-ज्ञप्तिः, निष्पत्तिश्च । निष्पत्तिरत्र स्वरूपावाप्तिः। गोः रूपं हि गोत्वादेव सकले तरंव्यावृत्तं सर्वसमानं च सिध्यति । सत्तादिः शुक्लादिवा न तादृशगोत्वस्वरूपसाधक भवति ॥
1वें-ख,
. प्रकार-ख,
को-ख.
था-ख.