SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ द्वादशमा हिकम् न भवतीति । अत एव हेतुप्रतिबिम्बनद्वारक एवं जात्युपन्यास इत्युक्तम् ॥ [ साधर्म्य वैधर्म्यसमौ ] अथ विशेषलक्षणान्याह । तत्र साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसौ । ५.१.२ ॥ ।। 651 प्रतिषेधापेक्षया पुंलिङ्गनिर्देश इति तत्र तत्र द्रष्टव्यम् । 'तत्र च साधर्म्येण वैधर्म्येण वा साधनमभिधाय सिषाधयिषितपक्षोपसंहारे साधनवादिना कुंते, साध्यधर्मविपर्ययोपपादनाय साधर्म्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः - साधर्म्यसमः प्रतिषेधः ॥ [ साधर्म्य समोदाहरणम् ] उदाहरणं तु - अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात्, यत् प्रयत्नानन्तरीयकं तत् अनित्यं दृष्टम्, यथा घटः - इति साधम्र्येण हेतौ प्रयुक्ते, जातिवादी साधर्म्येणैव प्रत्यवतिष्ठते नित्यः शब्दः, निरवयवत्वात्, निरवयवं द्रव्यं आकाशादि नित्यं दृष्टमिति । न चात्र विशेषहेतुरस्ति, घटसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्यः शब्दः, न पुनः आकाशसाधमर्यान्निरवयवत्वान्नित्यः शब्द इति ॥ 1 सा- ख [ वैधर्म्यसमोदाहरणम् ] 'तथाऽत्रैव वैधम्र्येण । त्यवस्थानं - नित्यः शब्दः, निरवयवत्वात्, यत् पुनरनित्यं तत् सावयवं दृष्टम्, यथा घटादि द्रव्यमिति । न चास्ति
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy