SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 650 न्यायमञ्जरी नूनमेष न जानाति वक्तुं सदृशमुत्तरम् । अन्यथा वाचमुत्सृज्य पाणिना प्रहरेत् कथम् ॥ खेदयद्वादिनं यस्तु हस्तपादादिचापलः । स संसद्युच्यते सद्भिः भण्ड एव न पण्डितः॥ जात्योपक्रममाणस्तु न तथैष विहस्यते। न हि संदूषणच्छाया तत्रात्यन्तमसङगता || तन्न कौपीनवसनापनयादिसाम्यं जात्युत्तराणामिति ॥ [जातिप्रयोगलाभः कस्य ?] . यत्त कस्तः प्रत्याय्यत इति-तन्न-न सर्वः सर्वज्ञकल्पो भवति, न च शाकटिकतुल्यः। सन्ति हि मध्यमदशावर्तिनः जनाः ; त आराध: यिष्यन्त इत्यलं प्रसङगेन ॥ . यत्पुनः असदुत्तराणामानन्त्यात् कथं चतुर्विंशतिसंख्येति-तत्राप्युच्यते-सत्यप्यानन्त्ये जातीनामसंकीर्णोदाहरणविवक्षया चतुर्विशतिप्रकारत्वमुपवणितं, न तु तत्संख्यानियमः कृत इति ॥ [सूत्रपदयोजनाक्रमः ] . , तदत्र साधम्र्येण प्रत्यवस्थानं अविशिष्यमाणं स्थापना हेतोः तत्सा धर्म्यसमा जातिः । सा च साधर्म्यहेतौ वैधर्म्यहेतौ च प्रयुज्यते वैधयेण प्रवर्तमानं 'तथैव वै'धर्म्यसमा जातिः। उत्कर्षापकर्षाभ्यां प्रत्यवस्थानं उत्कर्षापकषंसमे जाती इत्येवं सर्वत्र योज्यम् ॥ स्थापनाहेतुतश्चाविशेष्यमाणत्वं जातिवाद्यभिप्रायेण तासां द्रष्टव्यम्। जातिवादी ह्येवं वदति-यथा भवत्प्रयुक्तं साधनं तथेदमपि किमिति 1 हेतुत:-ख, वै-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy