SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ 649 द्वादशमाह्निकम् ङकुरनिकरदन्तुरितसीमनि केदारे तदुपद्रवः द्रुततरगामिनो यतः कुतश्चन चतुष्प'दाद्विपादाद्वाऽभिशडाक्यत इति तत्परिहाराय समन्ततो निरन्तरकण्टकशाखासन्ततिपरिचरणमाधीयते, एवमिहापि जात्यादिप्रयोगत दु द्धारद्वा रकं तत्त्वाध्यवसायसंरक्षणं कर्तव्यमितिः ॥ . [जात्युत्तरप्रयोगावकाशः ] यत्तुं विकल्पितं-क्व जातेः प्रयोगः, सम्यक्साधने, तदाभासेवेतितदुच्यते-सम्यग्दूषणमपश्यता किल जात्यादि प्रयोक्तव्यम् । तच्च सददूषणादर्शनं सम्यक्साधने तदभावादेव भवतु, साधनाभासे वा, प्रमादादिनेवेति कोऽत्र विशेषः ? मुमुक्षीस्तु ज्ञाततत्त्वस्य तत्प्रतिकूलवादिना केन चिदाक्षिप्तस्य तत्प्रयुक्त तत्त्वप्रति क्षेप बलात् साधनाभा'सविषय एवं सम्यग्दूषणमपश्यतः जातिप्रयोगावसरः। ज्ञात्वाऽपि साधनानामाभासतां यथा तथा सत्वरमेव निर्भयंतामयं दुराचारः' इति पार्श्वस्थितसुकुमारमतिशिष्यजनोत्साहजन नाय जात्याद्याडम्बरविरचमुचितमेव मुमुक्षोः। मुमुक्षु प्रति च शास्त्रारम्भात् आंजस्ये न तदपेक्षया साधनाभासविषय एव जातिप्रयोगः । अत एव च भाष्यकृता प्रथम साधनाभासा एव जात्युदाहरणं दशितम् ।। - लाभादिकामानां तु सम्यक्साधनेऽपि प्रयुक्ते युक्त एव जात्याधुप. क्रमः। इतरथा हि निस्संशय एव पराजयः स्यादित्येतच्च आनुषङिगकं प्रयोजनमित्युक्तम् ॥ [चपेटादिवर्जने हेतुः] यत्पुनरभिहितं-असदुत्तरकथने कथं न चपेटादिकं प्रयुज्यत इतितदप्यसत्-तस्यात्यन्तमलौकिकत्वात् । लोको हि तदैवं मन्येत 1 दो द्विपदो वा-ख, स-ख. आक्रम्ये-ख. वा-ख, स-ख, 'पक्षे-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy