________________
648
भ्यायमञ्जरी सदसि लाभादिकामस्य कस्यचित् प्रयोजनवद्भवैदपि कदाचित्, न तु मोक्षशास्त्रे तथाविधोपदेशः पेशल इति ॥
[जात्युत्तरस्य जल्पायङ्गतया सार्थक्यम् ] अत्राभिधीयते--समाहितमेतद्भगवता सूत्रकारेणेव तत्वाध्यवसाय संरक्षणार्थ, कण्टकशाखापरिवरणवत्' इति वदता। जल्पवितण्डाङगभूतानि छलजातिनिग्रहस्थाना'नि। तदुक्तं 'छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः' इति। भाष्यकृदप्याह-'छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थः। उपलक्षितानां स्ववाक्ये परिवर्जनं, परवाक्ये च पर्यनुयोगः। जातेस्तु परेण प्रयुज्यमानायाः सुवचः समाधिः, स्वयं च सुकरः प्रयोगः' इति ॥
[जास्युत्तरप्रयोगकाल:]. यदा हि मुमुक्षोः *आगमाद्वा युक्तितो वा तत्त्वज्ञानमुत्पन्ने, न चाद्यापि भावनाभ्यासप्रसादसमासादिततढिमातिशयः वर्तते, तस्यामवस्थायां यदि केनचित् किमप्यनुमानप्रायमभिधाय तदा कुलीक्रियेत, तदत्ऽसौं विदितयुक्त्यागमगौरवोऽपि सपदि तदुत्पादिते तत्त्वज्ञाने मनागसंभावना. लेशमिवाधिगच्छेत् । तस्मिन् वा दृढप्रत्ययेऽपि तत्पार्श्ववतिनः 'शिष्याः शिथि लितास्था भवेयुः। अतो झटिति स दूषणमपश्यन् प्रतिपक्ष जातिप्रयोगैरप्यसौ शमयेदेव, नोदासीतेत्युक्तं जल्पलक्षणे ॥
[जात्युत्तरस्य तत्वसंरक्षकत्वम् ] परोदिता वा जातीः प्रत्यभिज्ञाय तत्क्षणमेव परिहरेदिति सफ जातिव्युत्पादनम्। यथा क्वचिदचिरव्युप्तसस्य संप्रत्युद्भिद्यमानकोमला.
* आगमाद्वा इति श्रवणम् । युक्तितः इति मननम् ॥ , 1 लादी-ख, व्याकु-ख, शि-ख, ला-ख, गि-ख,