________________
647 द्वादशमाहिकम् प्रक्षेपसदृशानां सारेतरपरीक्षणक्षमविचक्षणोपेक्षणीयानामसदुत्तराणां आन. न्त्यात् चर्तुविशतिसंख्यापि कथमिति महान् विस्मयोऽस्माकम् ॥
-
तत्त्वसंरक्षणार्थमुपदेशोऽपि न घटते ] यदपि च तत्त्वाध्यवसायसंरक्षणं तत्प्रयोजनमभिधीयते तदपि न हृदयङगमम् – असदुत्तरोपन्यासेन तत्त्वाध्यवसायस्य संरक्षितुमशक्य त्वात् ॥ - अथ विकटाटोपप्रकटनपाटवोपहितापरसंमोहनद्वारेण तद्रक्षणमास्थी. यते, तर्हि 'निष्ठीवन'हसिततर्जनांसमदनकौपीनावरणविदारणचरणावस्फोटनाद्यपि व्युत्पाद्यतामिह मोक्षविद्यायाम् ॥
- [जात्युत्तरस्यावसराभावश्च] . अपि चेदं विचार्यताम्-क्व जातिप्रयोगः प्रत्यवस्थेयम्, सम्यक्सा. धने परेण प्रयुक्ते, तदाभासे वा? न तावत्साधनाभासे, तस्य हि येन निमित्तेनासिद्धत्वादिना साधनाभासत्वमुपनतं, तदेव तत्रप्रयोक्तुमुचितम्, न जातयः। तेनैव च परः पराजीयते । नापि सम्यक्साधने, तत्र प्रयुक्तानामपि तासामकिंचित्करत्वात्। न हि जातिप्रयोगकलुषितमपि सम्य. क्साधनमसाधनीभवितुमर्हति ॥
[ परपक्षे संचशयाधानमपि न फलम् ] अथैकान्तपराजयाद्वरं संदेह इति ताभिरुपक म्यते - तत्रापि न तथोपक्रममाणः कमिव प्रत्याययेत् ? 'न नीतिविदः, नीतिविदस्ताव. ज्जानन्त्येव, ‘सोऽयं यथोचितमभिवदितुमपारयन् किमप्यालजालमालपितुं प्रवृत्तः, इति। शाकटिकादिप्रत्यायनं तु प्रत्यन्तगह्वरजनपदेषु ग्राम्य.
1 ष्ठीवित-ख,
'म-ख,
'नी-ख.