________________
646
भ्यायमञ्जरी साधर्म्यवैधाभ्यामित्यसमासकरणेन* दिक्प्रदर्शनस्य सूचनात्। साधयेण वैधम्यण वा, कथमेष हेतः हेतुर्भवतीति वा, किमनेन क्रियते इति वा यदेवंप्रकारं प्रत्यवस्था'नं हेतुप्रतिबिम्बवर्त्मना क्रियते, सा 'जातिः इत्युच्यमाने भविष्यति सकलविशेषसङग्रहः। त्रैकाल्यसमादिष्वपि वा यादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्य :योजयितुं शक्यत्वात् । न
[दाहरणसाधर्म्य साध्यसाधनमिह विवक्षितम् , तद्वैधयं वा ; साधा दिमात्रं तु। तत्रापि नात्यन्ताय दुरवगममिति यथाश्रुतमेव साधर्म्यवै. धाभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् ॥
[ जातिविभागः, लक्षणानि च] अथ भेदवत्त्वाजातेः चतुर्विशतिधा विभागमाहसाधर्म्यवैधयोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तेि. प्रसङाप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥५-१-१॥
अत्र समा इति स्त्रियां पुंसि च तुल्यत्वान्निदंशस्य, जात्यपेक्षया स्त्री निर्देशो वा प्रतिषेधापेक्षया निर्देशो वा वर्णनीयः। विशेषलक्षणसूत्रेषु पुनः प्रायेण पुल्लिङगनिर्देशो दृश्यते। स तु प्रतिषेधापेक्षया तेषु व्याख्येय इति तद्व्याख्यानावसर एव वक्ष्यामः॥
[ जात्युपदेशाक्षेपः] ननु ! आस्तां तावद्विशेषलक्षणवर्णनम् । इदमेव त्वादौ चिन्त्यताम् । किमर्थमेवंविधमसदुत्तरजातं शास्त्रे व्युत्पाद्यते। एवंप्रकाराणां च धूलि.
* असमासकरणं-प्रत्यवस्थानपदेन ॥
1 नात्-च,
३ भ-ख.