SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 644 न्याट मञ्जरी छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते, यतः सामान्य. च्छलं पावें कृत्वा वागुपचारच्छलयोरभेदमभिहितवानसि । यथा चायं तदविशेषादिति त्रित्वप्रतिषेधः, तथा द्वित्वस्यापि, किंचित्साधर्म्यस्य सामान्यच्छलेऽपि भावात् ।। तथा हि-यदि तावद्वाचि निमित्तभूतायां इदं प्रवृत्तं छलम्, इदं चेति तदभेदं मन्यसे, तहि सामान्यच्छलमपि मा 'पृथग्वोचः। तदपि हि न . शरीरे मनसि बुद्धौ वा 'प्रवृत्तम्, अपि तु वाच्येवेति :वाक्छलमेवैकस्यात् ॥ अथवं सत्यपि तद्विशेषो दृश्यमानः न पराणुद्यते, सामान्यच्छलेपि न . शब्दार्थोऽन्यथाकृतः, किन्तु सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथ. गिष्यते; तहि वागुपचारच्छले अपि भिद्यते एवेति दशितम् । अतो युक्त "छलत्रित्वम् ॥ न चानन्त्यम्, इयत्तानियमकारिणः निमित्तत्रयस्य दशितत्वात् । भवान्तरभेदकृतं तु तदानन्त्यमिष्यते एव जातिवदित्यलं प्रसङगेन ॥ तस्मात् परस्परविविक्तनिजस्वरूपं ईदक छलत्रितयमेतदिहोपदिष्टम् । तस्य क्वचित्स्वयमपि क्रियते प्रयोगः . वाच्यः परैरभिहितस्य तथा समाधिः || ॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्या एकादशमाह्निकम् ॥ . * वादिनोः परस्पर स्फूर्तिप्रतिभादिपरीक्षणाय, सदस्यानां स्वचातुर्यप्रदर्शनेना, वर्जनाय वा छलस्य प्रयोगः॥ 1 वो-ख, निमित्ते-ख, ' भवस्विद-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy