SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ 643 एकादशमाह्निकम् वाक्च्छलमेवोपचारच्छलं तदविशेषात् ॥१-२-१५॥ न खलु वागुपचारच्छलयोः कश्चिद्विशेषः। अनेकधा शब्दार्थे संभवति वक्त्रभिमतादर्थादन्यस्य कल्पनं, तत्प्रतिषेधनं चोभयत्रापि समानम् । अवान्तरविशेषकृतनानात्वाभ्युपगमे च तदानन्त्यप्रसङगः ॥ अत्र समाधिमाह . न तदर्थान्तरभावात् ॥ १-२-१६ ॥ - नैतदेवम्-वाक्छलमेवोपचारच्छलमिति, ततोऽर्थान्तरत्वात् । वाक्छले हि 'नवकम्बलः' इति नवसु कम्बलेषु, नवे च कम्बले मुख्यार्थ एव शब्दः *'सरामः' इत्यादिवत् । ततस्त्वेकतरं वक्तुरनभिप्रेतं छलवादिनाऽऽरोप्य निषिध्यते । उपचारच्छले तु काष्ठसन्निवेशे मुख्यार्थे मंचशब्दः पुरुष भक्त्या प्रवृत्तः। मुख्यमभिधाय च गौगः प्रत्या'य्यो भवति। न त्वेष क्रमः साधारणशब्देष्विति महान् भेदः ॥ वाक्च्छले चार्थसत्तैव निषिध्यते 'कुतोऽस्य नव कम्बलाः' इति । इह तु सतो मंचस्य क्रोशनशक्तिनिषिध्यते ॥ समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले वाच्यः । उपचारच्छले तु गौण शब्दवृत्त्यनभिज्ञतामिति महान् विशेषः ॥ [छलत्रैविध्यसमर्थनम्] . अविशेषे वा किञ्चित्साधादेकच्छलप्रसङ्गः ॥ १-२-१७॥ * सः रामः इति, रामेण, रामया सह वा वर्तत इत्यर्थभेदास्संभवन्ति । परन्तु सर्वेऽपि मुख्याः ॥ 1 यको-ख, णादि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy