________________
641
एकादशमाह्निकम्
[उपचारच्छललक्षणम् ] - धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेधः उपचारच्छलम्
॥१.२.१४॥
. *अभिधानस्य धर्मः अनेकप्रकारः। मुख्यया वृत्त्या, गौण्या वा, लाक्षणिकया वा यत् अर्थे प्रत्यायनं, तदनेन विकल्पमानेन धर्मेण गौणेन, लाक्षणिकेन वा निर्देशे-प्रयोगे कृते, यः अर्थसद्भावप्रतिषेधः-मुख्यार्थनिषेधः, स उपचारनिमित्तं छलं उपाचारच्छलम् ॥
यथा'मंचाः क्रोशन्ति' इत्युक्ते, छलवाद्याह-'कथमचेतनाः काष्ठरचनात्मानः मंचाः कोशन्ति ? मंचस्थाः पुरुषा एते क्रोशन्ति, न मंचाः' इति ॥
. . .[उपचारच्छलप्रतिसमाधातम् ॥
अत्र समाधिः-वृद्धव्यवहाराच्छब्दार्थब्युत्पत्तिः। तत्र न केवल यव मुख्यया वृत्त्या शब्दाः प्रवर्तवानाः दृश्यन्ते, वृत्त्यन्तरव्यवहारस्यापि सुप्रसिद्धत्वात् । न च निनिमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयम्, सहचारणादिसूत्रनिवेदितनिमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वात् अग्य प्रयोगस्य । स्थानादयं तद्वदुपचारः। स त्वं गौणलाक्षणिकादिशब्दप्रयोगा वगतिबाह्य एव, य एवं प्रत्यवतिष्ठते ॥
... * अभिधानं-शब्दव्यापारः ॥
+ सहचरणस्थानतादर्थ्य-(न्या. सू.2-2-64) इत्यादिसूत्रपठितानि उपचार निमित्तानि । प्रकृते 'स्थान' निमित्तम् ॥
1 वर्तित-ख,
41