________________
640
न्यायमञ्जरी
तत्र विशुतश्वाद्याह - 'यदि ब्राह्मगे विद्याचरणसंवत् संभवति, तहि व्रात्येsपि ब्राह्मणत्वजात्य' नपायात् सा' भवेत्' इति ॥
तंत्रेदमतिव्यापकं ब्राह्मणत्वसामान्यं यतो विद्याचरणसंपदमत्येति, स्पृशति च तद्योगात् ब्राह्मणव्यक्तौ । संभवतः विद्याचरणसंपद्रूपस्यार्थस्य वक्त्राऽभिहितस्य सतः, तत्र वक्त्रनभिमतामेवातिसामान्यहेतुतामारोप्य च्छलवादी प्रत्यवतिष्ठत इति ॥
[ सामान्यच्छल प्रतिसमाधानम् ]
अत्रोत्तरं - केन ब्राह्मणव' स्यात्र' हेतुत्वमभिहितम्, यदनैकान्तिकीकुर्वन् प्रत्यवस्थितोऽसि । संभावनावचनमिदं स्तुत्यर्थमुपन्यस्तम् । विद्याचरणसंपदां पात्रं हि ब्राह्मणः । सति ब्राह्मणत्वे * पूर्वजन्मोपचित सुकृतपरिणामात् भवति विद्याचरणसंपत् । न च तदैव तस्या हेतुरिति ॥ यथा 'संभवन्त्यस्मिन् क्षेत्रे शालयः इति क्षेत्रप्रशंसापरे वाक्ये प्रयुक्ते, नैव वक्तुमापद्यते 'यदि क्षेत्रमेव शालिसंभवहेतु:, तहि विनाऽपि हलबलीवर्दादिसामग्रीं महत्यवग्रहेऽपि शालयोऽस्मिन् भवेयुः' इति । तदिदमर्थ. वादगत्यनभिज्ञस्य भवतः भाषितमित्यास्तामेतत् । इदं तु भवन्तं पृच्छामि भो महात्मन् !
स्वभावशुद्धा परिनिश्चितार्थ
संस्पर्शनी पुण्यसहस्रलभ्या ।
केनेदृशी सर्वजनानुकूला
कल्याणिनी ते निरमाथि वाणी ||
* गुणदोपयोरुभयोरपि वंश: सहकारीति उत्सर्गसिद्धमिदम् । कदाचित् ब्राह्मणपदं केवल व्यक्तिवाच्यपि ॥
+ स्वभावेत्यादि - परिहासवचनसू ॥
1 पनयनात्सं-ख,
2
स्य - ख,