SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ 639 एकादशमाह्निकम् अर्थप्रकरणाधीननियतस्वार्थवृत्तिताम्। यो न जनाति शब्दानां स एवमपभाषते ॥ इदमर्थद्वये तावत् साधारणपदं भवेत् । जातिशब्दाः पुनर्व्यक्तिसहस्राक्षेपकारिणः॥ स्पृशन्ति नियतं वाच्यं तेऽपि प्रकरणादिना। ब्राह्मणान् भोजयेत्यादौ तद्वालेन न शिक्षितम् ? ॥ तस्माच्छब्दार्थसन्देहे प्रयोक्ता वा स' पृच्छयते। न त्वर्थान्तरमारोप्य तनिषेधो विधीयते ॥ - [सामान्यच्छललक्षणम् ] संभवतोऽर्थस्यातिसामान्ययोगादसद्भूतार्थकल्पना सामान्यच्छलम् ॥ १-३-१३॥ अनिव्यापकं सामान्यम्-अतिसामान्यम् । तद्योगात्-तत्संभवात् क्वचिद्व्यक्तार्थस्य कस्य चित्संभवतः संभाव्यमाननिष्पत्तेः वक्त्राऽभिहितस्य सतः या असद्भूतार्थकल्पना-वक्तुरनभिप्रेतातिसामान्यहेतुत्वकल्पना तया च प्रत्यवस्थानं तत्सामान्यनिमित्तं छलं सामान्यच्छलम् ॥ - यथा-क्वचिदुचितोपचारवचनाराध्यमान प्रगुण ब्राह्मणकुले तत्कथा. बहुले राजकुले कश्चित्सुजन्मा कंचिदग्रजन्मानं स्तौति-'अहो नु खल्वसौ ब्राह्मणः विद्या *चरणसंपन्नः' इति । तस्मिन् प्रसङगे तथाविध एवा.. परः तमुत्साहयन् कथयति-संभवति ब्राह्मणे विद्याचरणसंपत्' इति । * चरणम् , आचरणमिति वा पदम् । आचार इत्यर्थः ॥ 1 वत्स-ख - गुणवद्-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy