SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ 638 न्यायमञ्जरी 'नवकम्बलोsयं माणवक:' इति 'नवः कम्बलोऽस्य' 'नव कम्बला अस्य' इति विग्रह'द' 'शादृश्यमानविशेषमपि समासपदमिदं अर्थद्वयेऽप्यवि शिष्टम् । तत्र अभिनवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नं च नित्य नवसंख्यासंबन्धमध्यारोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते - 'कुतोऽस्य नवकम्बला: ?' इति । तदेतत् साधारणशब्दे वाचि छलं वाक्छलमिति ॥ . [ वाक्छल प्रतिसमाधानम् ] यथा च कस्यचिदवस्थायां जल्पादौ छलादिप्रयोगो युक्त इति तद्व्युत्पादनम्, एवं परप्रयुक्तस्यापि सतः छलादेः प्रतिसमाधानमभिधेयमिति तदपि व्युत्पाद्यते । नव कम्बला अस्येति मम विवक्षितमिति कुतः प्रतिपन्नमायुष्मता ? किमयमभिनवकम्बलयोगप्रतिपादको न भवत्येव बहुव्रीहिः । पक्षद्वयेऽपि च संभवति । यदि तावदर्थप्रकरणादिसामर्थ्य पर्यालोच' नावसित निय'ता' भिधेयवृत्तिशब्दव्यवहाराभिज्ञोऽसि, तदर्थसिद्धमर्थमभिनवकम्बलसम्बन्धमेव बुद्ध्वा तूष्णीमास्व । अथ शुष्कतार्किक कुटुम्ब गर्भदास इव शब्दवृत्तानभिज्ञ एव त्वम् तर्हि पंक्षद्वयसंभ 'वेन' संशयानो मात्र पृच्छ 'कि ते विवक्षितम्' इति । * निषेध कस्सन् वक्तुमुपक्रमसे ॥ [ अर्थद्वयसाधारणपदप्रयोगो न दोषाय ] ननु ! त्वमप्यर्थप्रात्यादिफलपर्यन्तशब्दप्रयोगप्रवृत्तः किमिति साधारणमिदमन्धपदप्रायं वचः प्रयुङ्क्षे ? अयि बालिश ! तवै' वेहे' - दमन्धपदम् ॥ * मामपृष्ट्वेत्यादिः ॥ 1 ह - ख, 2 नया - ख, 8 मा-च, 4 वे-ख 5 त- ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy