________________
636
न्यायमञ्जरी अन्येष्वपि गौर्न पदा स्प्रष्टव्या' इति सामान्योपदेशेषु नामूर्तायां आकाशनिविशेषवपुषि जातौ स्पर्शप्रसक्तिः, तनिषेधो वाऽवकल्पते। किन्तु व्यक्तिष्वेवेति विशेषविषय एव सर्वत्र क्रियायोग इति तत्रैवोदाहरणवर्णनं युक्तम् ॥
- [विशेषस्यैव सामान्यदृष्टान्ततापि ] कथं तहि सकलहेत्वाभाससार्थसामान्यलक्षणम्, अप्रयोजकत्वम् अन. पेक्षितसव्यभिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दशितम्– 'अनित्याः परमाणवः, मूर्तत्वात्, घटवत्' इति उच्यते-प्रमाणे तहि प्रत्यक्षादिविशेषनिरपेक्षं प्रमाणसामान्यं नोदाहृतम् * ? ननु ! अयमपरो दोषोऽस्तु। तदप्ययुक्तमेवानुष्ठितम् । किमिति नोदाहृतम् अनपेक्षितप्रत्यक्षा. दिविशेष प्रमाणसामान्यम्-अत्रोच्यते-न शक्यमुदाहर्तुम्, असंभवादिति तन्नोदाहृतम् ; न पुनरालस्यात् प्रमादाद्वा। हेत्वाभाससमूहसाधारण रूपं त्वप्रयोजकत्वं तथा संभवादुदाहृतम् । न च तत्सामान्यात् अत्रापि तथाऽस्त्विति वक्तव्यम्। न हि चाक्षुषेण पंचाशद्भवितुमर्हति। तस्मा नैवं वक्तुं शक्यम् ||
[ सर्वत्र नैको न्यायः संभवति ] . यथा विरुद्धादिविशेषरूपर हितमप्रयोजकत्वं हेत्वाभासेषु सामान्यरूपं दृश्यते, तथा प्रमाणे ष्वपि प्रत्यक्षादिविशेषरूपरहितं तदृश्यताम् । यथा वा प्रमाणेषु तन्न दृश्यते, तथा हेत्वाभासेष्वपि मा दर्शीति वस्तु. स्वभावानामनुयोगक्षेत्रताऽनुपपत्तः॥
* स न्यायः अत्रापि भवत्वित्याशयः। तत्राप्याक्षिपति नन्विति ॥ प्रमाण. लक्षणेऽप्ययमस्तु दोष इत्यर्थः ॥
1 न-ख,
स-च,
३ हेत्वाभासे-च.