________________
633
एकीदशमाहिक
[ व्याख्यान्तरम् ] तत्र केचिदाचक्षते। 'प्रतिज्ञानन्तरं हि हेतुः प्रयोक्तुं युक्तः। तत्रं यः प्रतिज्ञायाः पूर्वमेव, दृष्टान्तवचनादेरप्यूज़ वा प्रयुज्यते स कालात्यया पदिष्ट इति–तदनुपपन्नम
· अक्षत प्रतिबन्धस्य साध्यावगतिकारिणः ।
क्रमाति क्रम मात्रेण न हेत्वाभासता भवेत् ॥ कियांश्चैषदोष : , पदान्तरव्यवहितोच्चारणं नाम। व्यवहितमपि येन सह समुचितसमयमन्वेतु म धिकृतं इतरदतिनिकटपठितमपि पराणुद्य दवीयसाऽपि तेनैव संबन्धमनुभवति । यथा
* अयसा पथि गच्छन्ती औषधी दीर्घलोचनाम् ।
दृष्टवानसि ? केदारे यो लुनासि मम प्रियाम्' इति || 'अपि च अप्राप्तकालमेतत् कथितं पृथर्गव निग्रहस्थानम्। तच्च पुनरुच्यमानं न कंचन स्वार्थमावहति तस्मादपव्याख्यानमेतत् ॥
[व्याख्यानान्तरम् ] अपर आह–सविशेषणस्य हेतोः प्रयुज्यमानस्य यस्य विशेषणं कार्यकालमत्येति, न तत्पर्यन्तमवतिष्ठते, स कालात्ययापदिष्ट इति । यथा'कालान्तरस्थायी शब्दः, संयोगव्यङगयत्वात्, रूपवत्' इति। अत्र ने व्यङगयत्वमात्रं हेतुत्वेन विवक्षितम् , अपि तु सविशेषणं संयोगव्यङय. त्वम् । स चायं संयोगः व्यंजकः, दृष्टान्तर्मिणि रूपे तदवंगतिपर्यन्त
* यः केदारे ओषधिं लुनासि-इत्यन्वयः ॥
1 र्थतः-च.
शय-च,
मन-च,
'अ-ख,