________________
एकादशमाह्निकम्
तोऽयं हेतुः 'मूर्तत्वात्' इति किमनैकान्तिक उच्यताम्, अथ कालात्ययापदिष्टः, - आहोस्विद्विरुद्धः, उत प्रकरणसमः ? इति । नैषामन्यत - मोsपि वक्तुं शक्यते एतल्लक्षणानुपपत्तेरिनि चेत् काममसिद्धोऽपि मा वादि, पक्षे वर्तमानत्वेन तल्लक्षण' स्याप्य' नुपपत्तेरिति ॥
[ अप्रयोजकस्यातिरिक्तत्वमेवास्तु ]
अस्तु तहि षष्ठ एवायं हेत्वाभासः । सम्यग्धेतुतां तावद्यथोक्तनयेन नाश्नुत एव । न चैतेष्वन्तर्भवति इति बलात् षष्ठ एवावतिष्ठते । कथं विभागसूत्रमिति चेत्, अतिक्रमिष्याम इदं सूत्रम् । 'अ'तिक्रामन्तःसुस्पष्टदृष्टमपीमं अप्रयोजकं हेत्वाभासमपह्नवीमहि ? न चैवं युक्तम् । अतो वरं सूत्रातिक्रमः, न वस्त्वतिक्रम इति ॥
2
अथ वा न सूत्रकारनियमोल्लङघनं श्रेयः । प्रमाद्यन् खलु परिमित दर्शी मादृशः अन्यथा ब्रूयात् । न न्यायमहोदधेः पारदृश्वा भगवानक्षपादः । 'त' देनं' हेत्वाभासं असिद्धवर्ग एव निक्षिपामः ॥
1
[ अप्रयोजकस्य | सिद्धत्वमेव ]
ननु ! पक्षे वर्तमानः कथं तत्र निक्षेप्तुं शक्यते ? यथा साध्यधर्मप्रयोजकतया पक्षेsपि वतुं युक्तम्, *तथा न वर्तत एवायं तत्रेत्यदूरविप्रकर्षेण भवत्येवायमसिद्धः । अत एवायमन्यथासिद्ध इत्युच्यते । यथासिद्धः सिद्धो भवति, तथा न सिद्धः; अन्यथा तु सिद्ध इत्यनया नीत्योसानवृत्तिमात्र 'ला' भेऽप्ययमसिद्धः । एवं अन्येषु तु हेत्वाभासेषु 'भङगया 'पि नान्तर्भवतीत्युक्तमेतत् ॥
* साध्यसाधनसमर्थत्वं हि हेतुस्वरूपम् । तस्यासिद्धिः ॥
स्या - ख,
• बाझोs - ख.
2
अन-ख,
631
3
दत्र-च,
4
लं-ख,