SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ 630 न्यायमञ्जरी [अनुमानेनानुमानबाधासंभवसिद्धान्तः ] तदेतदसमीचीनम् - अनुमानादेर्बाध्यबाधकभावानुपपत्तेः। सर्वत्र खलु"प्रमाण भासरूपं बाध्यते, न तु प्रमाणं नाम शक्यते बाधितुम् । अलातचकादावपि प्रत्यक्षाभासस्य बाधकमनुमानं, न प्रत्यक्षस्य। एव मत्रापि अनुमानाभासस्य बाध्यता, नानुमानस्य ॥ ___तदिदानीमनुमानाभासत्वमस्य किंकृतमिति चिन्त्यताम् । स्वल. क्षणवैधुर्यादिति चेत्, किमनुमानांतरेग बाधकेन । तद्वाध्यतया तु तदा. भासत्वकथनमितरस्यापि तादृशमेव। परमाणु'प्रसाधनानुमानमनन्यथा. सिद्धम्। इदं तु मूर्तत्वमन्यथासिद्धमिति चेत् , आगतोऽसि मदीयं पन्थानम्। अन्यथासिद्धत्वादेव तदप्रामाण्ये सिद्धे कि तद्वाधया। अन्यथासिद्धत्वमेव कमिति चेत्-न घटादौ मूर्तत्वप्रयुक्तमनित्यत्वम् , अपि तु कार्यत्वप्रयुक्तम्। कार्यस्य हि कारणविभागाद्वा, तद्विनाशाद्वा विनाशोप पत्ते: कार्यत्वमेवानित्यत्वप्रयोजक युक्तम् , न मूर्तत्वम्। मूर्तत्पे त्वनित्यताक्षेपिणि परमाणुतैव हीयेतेत्युक्तम् । तस्मान्न मूर्तत्वमनित्यतायां कारकं ज्ञापकं वेति भव'त्य न्यथासिद्धम् || [अप्रयोजकस्यासिद्धावन्तविहेतुः ] . , भवत्वेवम् ; असिद्धवर्गे तु कथमेष हेतुर्गण्यते ? *साध्यधर्मयुक्ता मिणि वृत्तिरस्य नास्तीति चेत्-यद्येवं पंचानामपि तत्प्रयुक्तवृत्तिरहितत्वात् असिद्ध एवंको हेत्वाभासः स्यात् ।। अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवांतररूपभेदनिबन्धनानका. न्तित्वादिब्यपदेशपंचकभाज इमे हेत्वाभासा इष्यन्ते । हन्त तहि प्रकृ. * मूर्तत्वसत्वेऽपि अनित्यत्वव्याप्यमूर्तत्वष्य परमाणावभावात् ॥ 1 णुषु-ख, लब्धे-ख, 'त्व-च, 1 पुत्र-ख, ध्यसाध-ख. लास-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy