________________
629
। एकादशमाह्निकम्
[अनुमानेनानुमानबाधाक्षेपः] ननु ! किमिदमनिपतिवचनम्, उत वैदिकी चोदना, यत प्रत्यक्षागमयोरेव बाधकत्वम् अनुमानं प्रति, नानुमानान्तरस्येति। परमाणु . प्रसाधनानुमानं हि दृढं, अदृढस्य तदनित्यतानुमानस्य मूर्तत्वादेर्यदि बाधकं स्यात् को दोषः स्यादिति ॥
अथ मनुषे-नियम एवैषः, प्रत्यक्षानुमानयोविरोधे प्रत्यक्षमेव बलीय इति तदेवानुमानस्य बाधकमुचितम् , नानुमानान्तरमिति-तदसत्-अलात चक्रादौ प्रत्यक्षमप्यनुमानेनानन्यथासिद्धेन बाध्यत एव ॥
। [अनुमानेन प्रत्यक्षस्यापि बाधः ] ननु ! भ्रमणविरतौ परिमितपरिमाणो'ल्मुक'ग्राहि प्रत्यक्षमेव तत्र प्रत्यक्षस्य बाधकम् , नानुमानमिति-नैवम-अनवरतपरिभ्रमणसमुद्भूत चक्रावभाससमय एव अनुमानेन तत्र भ्रान्ततानिश्चयात् ॥
पूर्वप्रवृत्तं अचक्राकारतदलातपरिछेदि प्रत्यक्षं बाधकमिति चेत्-नपूर्वप्रवृत्तत्वेनैवातिक्रान्तत्वात् । तस्मादनुमानमेव चक्रज्ञानबाधकम् । एवंच अनन्यथासिद्धमनुमानमपि प्रत्यक्षस्य बाधकं भवति ॥ ___ यच्चानन्यथासिद्धतया मूलस्तम्भभूतमखिलानुमानप्रतिष्ठायतनं प्रत्यक्ष मपि बाधते', तत् अनुमानस्य तपस्विनः कथं न बाधकम् ? अतश्च प्रत्यक्षागमग्रहणस्योपलक्षणार्थत्वात् अनुमानबाधितमपि कालात्ययापदि. ष्टमेवेति ॥
माणकोटावपरिगणितत्वान्न बाधकत्वसंभवः ॥
1 लका-च,
द्-ख,
३ धीम्-ख.