SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ 628 न्यायमञ्जरी व्यतिरेकः । एष तु ताभ्यामर्थान्तरमिति तत्रागृहीतान्वयव्यतिरेकात्म. नियमे हेतुः षण्ढ इव 'सुत'जन्मनि न समर्थ एव साध्योपस्थापने भवेत्॥ __ अलमनया डिम्भविभीषिकया। न हि स कलसपक्षविपक्षसाक्षा. करणकारणकेको ल्लेख पुरस्सरं व्यप्तिग्रहणमिति पूर्वमेव निर्णोतोऽयमर्थः। न चतर्जमिति च्यातिग्रहणं भवति, येन षाढसुतसाम्य चोदनावकाशः स्यात् । सामान्येन हि व्याप्तिर्गृह्यमाणा तत्रापि गृहीता भवत्येव । तेनापि. च कालान्तरे सपक्षविपक्षान्यतरवर्गानुप्रवेशिना भवितव्यमेव। विमत्यव. स्थायां तु पृथगेव ताभ्यामसाविति न तत्र वर्तमानो हेतुरनैकान्तिको भवति ॥ एतेन ईश्वराद्यनुमानानामप्यनैकान्तिकत्वमपाकृतं वेदितव्यम् । तस्मान्नानकान्तिकत्वेनागमकं मूर्तत्वम्, अपि त्वन्यथासिद्धत्वेनैवेति ॥ . [उक्तहेतोर्बाधितत्वमपि न] ननु ! एवमपि परमाणुप्रसाधनानुमानमहिमहतशक्तितया मूर्तत्व. मनित्यत्वसिद्धावक्षमं जातमिति* ततश्च कालात्ययापदिष्टत्वात् नान्यथासिद्धतामधिगच्छेत्-नैतदेवम्-कालात्ययापदिष्टो हि प्रत्यक्षाममापहृतविषय उच्यते, 'अनुष्णः कृष्णवा' 'मदिरा द्विजैः पातव्या इत्यादौ। दर्शितः 'यत्पुनरनुनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः सः' (न्याभा-1-1-1) इति । न च परमाणुषु परमाणुतयैव सततपरोक्षेषु प्रत्यक्षमनित्यता विपर्ययग्राहि प्रवर्तितुं शक्तम्। आगमस्तु नास्त्येवेति कुतः कालात्यया. पदिष्टता || - - * धर्मिग्राहकप्रमाणबाधितत्वादनित्यत्वस्य ॥ 1 पुत्र-ख, ३ ध्यसाध-ख. लास-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy