________________
627
एकादशमाह्निकम् एवानित्यत्ववादिनः। स तु रागद्वेषकलुषितहृदयतया यदि तावत्' पक्षतया ब्रवीति, ब्रवीतु नाम। न तु सुस्पष्टासिद्धनित्यतानां विपक्षभावो निवर्तत इति ॥
[तस्यानैकान्तिकत्वासंभवः] तदिदमनुपपन्नम्-अनेन क्रमेण धूमानुमानस्याप्यनैकान्तिकत्वप्रसहुगात्। धूमो हि महीभृति हुतवहविरहितवपुषि विपक्षे वर्तत एव । न तत्र चित्रभानोरभावो निश्चित इति चेत्–किन्नु खलु सद्भावोऽस्य तत्र गृहीतः, तथा सति वा कृतमनुमानेन ||
अथ सत्त्वमसत्त्वं वा नावधारितमेव धराधरे, धूमकेतोस्तहि सन्दिधा तत्र विपक्षता। निश्चितविपक्षवृत्तिवत् संशयितविपक्षवृत्तिरपि नानकान्तिकतामतिवर्तत इति सर्वानुमानानामेव निवापांजलिर्दत्तः स्यात् ||
[ पक्षस्यापि सपक्षविपक्षत्वाक्षेपपरिहारौ ] - न च वादिहृदयपरिकल्पनोपारूढस्थितिरपि पक्षो नाम नास्ति । तदभावे किमपेक्षः सपक्षविपक्षव्यवहारः। बुद्ध यारूढत्वपक्षेऽपि न सपक्ष विपक्षयोः पक्षत्वम् । न च वस्तूनामुभयात्मकता भवेत् । किन्तु कंचिकालमत्यतरासिद्धिवत् विमतिपथापतितस्य वस्तुनः-पक्षत्वमुपेयते। निर्णयजन्मा तु विमतिविरतौ ननमन्यतरवर्गपतितोऽसौ भविष्यतीति सर्वथा न तस्यां दशायां तेनानैकान्तिकत्वोद्भावनं युक्तम् ॥
- [पक्षे साध्यसिद्धयसंभवाक्षेपपरिहारौ ]
ननु ! अनेन पथा पृथक्कृते सपक्षविपक्षाभ्यां पक्षेन तत्रान्वयव्यतिरेकयोः अन्यतरस्यापि ग्रहणं भवेत्। सपक्षे ह्यन्वयो गृह्यते, विपक्षे च
न्-ख.