SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ 626 न्यायमञ्जरी वदनित्यतां प्रयोक्तुमुत्सहते* । तथा हि परमाणुषु सिद्धेषु सत्सु तत्र वर्त मानं मूर्तत्वं अनित्यतां साधयेत्, अन्यथात्वाश्रयासिद्धतामुपेयात् । सिध्यन्त एव च सावयवकार्यानुमानमार्गेण, लोष्टप्रविभंगावभासमान भागपरम्परापरिकल्पनक्रमेण वा परमाणवो निरवयवाः सिध्यन्ति । सावयवत्वे हि तदवयवाः परमाणवो भवेयु, न ते। तेषामप्यवयवान्तर. परिकल्पनायामपि अवयवानामा'नन्त्याविशेषत् सर्षपस्य मेरोश्च साम्य.. मापद्यते। न च तदस्ति। तदेवं निरवयवेषु परमाणुषु निसर्गसिद्धमनाश्रितत्वम्। अतश्च आश्रयविनाशावयवविभागादिविनाशकारणाभावात् , स्वाभाविकविनाशवादनिराकरणाच्च कथं परमाणुन नित्यता' स्पृशेत् । मूर्तत्वं तु वस्तुधर्मत्वाद्भवदपि प्रमेयत्वात न प्रयोजकम् ॥ . इयांस्तु विशेषः-प्रमेयत्व उभयपक्षस्पर्शादनकान्तिकं भवदप्रयो जकम् । इदं तु मूर्तत्वं अनित्यव्यतिरिक्तस्त्वन्तरपरिचयविरहितमपि न प्रयोजकमिति ॥ . [ मूर्तत्वहेतोरनैकान्किस्वाक्षेपः] ननु ! इदमपि प्रमेयत्ववत् विपक्षवृत्त्येव मूर्तत्वम् ।, क्व विपक्षे वर्तते ?-परमाणुष्वेव। ननु तेषां पक्षीकृतत्वात् कथं विपक्षता-न पुरुषेच्छानुरोधेन वस्तु विपरिवर्तते। विपक्षो हि नाम स उच्यते, यः सिषाधयिषितधर्मविपरीत धर्माध्यासित त या दृढप्रमाणसिद्धः। पर. माणवश्चैतेऽनन्तरनिर्दिष्टनीतिक्रमेण निर्णीतनित्यत्वाः परमार्थतो विपक्षा * सावयवस्वमेवानित्य प्रयोजकम् । + अश्रयनाशानाशः रूपादीताम्। स्वाभाविकविनाश वादः बौद्धानाम् ॥ 1 वा-ख, 2 नां-ख, तां-ख, त-ख, 5 तनुत-च:
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy