SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ 625 एकादशमाह्निकम् [अन्यथासिद्धस्य नातिरिक्तत्वम् ] अन्ये तु अन्यथासिद्धत्वं नाम तद्भेदमुदाहरन्ति । यस्य हेतोः मिणि 'वृत्तिर्भवन्त्यपि साध्यधर्मप्रवृत्ता न भवति, सोऽन्यथासिद्धः। यथा-अनित्याः मनःपरमाणवः, मूर्तत्वात् , घटवत्' इति ॥ ननु ! कथमयमन्यथासिद्ध उच्यते ? किमिति सद्धतुरेव न भवति? कि परमाणुषु मूर्तत्वं न वर्तते ? किं घटादावनित्यतया व्याप्तं न दृश्यते? किमाकाशादेः खपुष्पा देर्वा विपक्षान्न प्रच्यवते? कि प्रत्यक्षंणागमेन वा बाध्यते ? किं प्रतिपक्षण प्रबाध्यते? येनाभासतां भजते-न-प्रतिबन्धाभावात् ॥ . __ [अन्यथासिद्धस्याप्रयोजकत्वम् ] नन! पंचानां प्रतिबन्धलक्षणानां कतमदस्य श्लथीभूतम् ? नान्यतमस्यापि शैथिल्यं ब्रूमः। तत्कि पंचस्वपि लक्षणेषु न परिसमाप्त. प्रतिबन्धः ?. न न परिसमाप्तः। का तोयं विडम्बना-पंचसु लक्षणेषु प्रतिबन्धः परिसमाप्यते, तानि चास्य सन्त्येव । न चैष प्रतिबन्धः इति कैतवम्-उच्यते-प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयोः धूमाग्नि. वत् प्रतिबन्धोऽवधार्यते । स चात्र प्रयोज्यप्रयोजकभावो नास्तीति । अत एवायमन्यथासिद्धः अप्रयोजक इति कथ्यते ॥ [अप्रयोजकत्वनिर्णयक्रमः] कथं पुनरस्याप्रयोजकत्वमवगतम्-उच्यते-मूर्तत्वं हि *सर्वगतेतरद्रव्यपरिमाणविशेषादिधर्मः वस्तुस्व भाव मात्रनिबन्धनः न कृतकत्वादि * सर्वगतद्रव्यं-आकाशादि अमूर्तमुच्यते ॥ 1 प्रवृ-च, दावपि-च, प्र-ख, रूप-च. 40
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy