SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ 624 न्यायमञ्जरी तत्सिद्धमेव। अथ तत्रकृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणम् , तदा ताकिकोऽपि तूष्णीमास्ताम्। द्वयोरप्यसौ चाक्षुषत्वादिवत् न सिद्धो' हेतुः। वाङमात्रेण त्वसिद्धिकथनमसांप्रतम , अतिप्रसङगादिति ॥ [असिद्धस्यानित्यदोषत्वम् ] सत्यमेवं-न सर्वदाऽन्यतरासिद्धस्य हेत्वाभासत्वं समभिदध्महे । किन्तु किचित्कालमिति। यदैकेन वादिना हेतौ प्रयुक्ते द्वितीयो वदति, 'मां प्रति न सिद्ध एष हेतुः' इति। तदा हेतोः प्रयोक्त्रा तत्साधनमभिधेयम्। अनभिधानात्स पराजीयते। साधने तु तेनोक्ते तदसिद्धतोद्भा वनवादी पराजीयत इति यावत्तत्सिद्धौ नोपन्यस्तं साधनं, तावदेवासौ अन्यत रासिद्धः। अनन्तरं तु सम्यग्घेतुः उभयासिद्धो वा भविष्य. तीति ॥ [व्यधिकरणासिद्धिस्वरूपम् ] .. व्यधिकरणासिद्धिस्तु यथोक्तभेदान्तर्गत एव। यथा 'नित्यः शब्दः काकस्य कार्पोत्' इति ॥ क्वचित्पुनश्च व्यधिकरणासिद्धोऽपि भवति गमक इत्येके। तद्यथा बहलबहलः प्रचलजलधरश्यामलवपुः अम्बरतलमाक्रामन् धूमप्रबन्धः क्षोणी ध्रकन्दरादि प्रदेश धर्मत्वानवधारणेऽपि तत्र गमयितुमलमनलमिति य'दा' वा 'अग्निमानेष देशः, धूमोपलब्धेः' इति प्रयुज्येत, तदा उपलब्धे, रात्मधर्मतया वैयधिकरण्येऽपि गमकत स्तीति* ॥ * यदि 'अन धूमोपलब्धेः' इत्येवात्र हेतुः , तदा चोपलब्धिविषयधूमस्य सामानाधिकरण्यं संभवति ॥ __ 1 द्धयेत-ख, रसिद्धय नन्तरं-ख, ३ विशेष-ख, था-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy