________________
620
न्यायमञ्जरी
___ अन्यतरत्वादित्यसिद्धो हेतुरिति चेत्, किल पक्ष एवायं, न पक्षसपक्षयोरन्यतर इति-तदयुक्तं-यत एवायं पक्षः, तत एवायं पक्षसपक्षयोरन्य. तरः। न ह्यपक्षः पक्षसपक्षयोरन्यतरः स्यात् । न ह्यवरुणो मित्रावरुणयोरन्यतर इत्युक्तमेव ॥
पक्षोऽपि च भवन्नेषः न पक्षत्वादित्यनेन रूपेण-हेतूक्रियते, किन्तु अन्यतरत्वादिति । इत्थं च हेतूकरणे नकोऽपि दोष इति ॥
[सप्रतिपक्षोदाहरणान्तरम् ] अपरमुदाहरणम्-'*सन् सर्वज्ञः, इतरतद्विपरीतविनिर्मुक्तत्वात' घटवत्' 'असन् सर्वज्ञः, इतरतद्विपरीतविनिर्मुक्तत्वात् , खरविषाणवत' इति अत्राप्याक्षेपप्रतिसमाधानप्रकारः पूर्ववदनुसरणीयः ॥
धर्म्यसिद्धतादि च यत्नतः परिचिन्तनीयम् ।
एवंजातीयकं तूदाहरणं नानुमोदन्ते मतिमन्तः। यत्र हि हेतुना स्वयमर्थ सम्यगसम्बग्वाऽनुमाय प्रमाता परप्रत्यायनाय 'तमेव' हेतुं प्रयुंजीत, स प्रयुज्यमानः वस्तुबलप्रवृत्ततया हेतूभवति, हेत्वाभासी. भवति वा ॥
[ उक्तानुमानयोः अनुदाहरणस्वम् ] तथा हि-आरोहपरिणाहवति 'पुरोऽवस्थिते धमिणि स्थाणुगत. विशेषानुपलम्भात् एकस्य पुरुष इति भवति प्रतीतिः, इतरस्य तु पुरुषगत विशेषानुपलब्धः स्थाणुरिति भवति मतिः। एवं च यदाऽसावेकः पुरुषत्व
__* सर्वज्ञे सत्त्वं साध्यम् । घटादीनामिव सर्वज्ञास्यापि सत्वमावश्यकम्, स्वभिशस्वविलक्षणविलक्षणत्वादिति हेतुः ॥
1 तं-ख.
१ पुरुषे-ख.