________________
एकादशमाह्निकम्
619 निश्चितमतिना प्रतिप्रयोगे कृते, तस्यापि त्रैरूप्यमुपलभमानः संशयमधि गच्छतीत्यलं प्रसङगेन ॥
- तदेवं असिद्धादिलक्षणवपरीत्यात् प्रतीत्यनगंणः प्रकरणसमो नामा' सद्धो हेत्वाभासः ॥
[सप्रतिपक्षविषये पक्षान्तरम् ] अपरे पुनः उदाहरणान्तरमस्य व्याहरन्ति-नित्यः शब्दः, पक्षसपक्ष योरन्यतरत्वात , आकाशवत् । अनित्यः शब्दः, पक्षसपक्षयोरन्यतरत्वा 'देव, घटवदिति ॥
ननु ! पक्षसपक्षयोरन्यतरः पक्षो वा स्यात् , सपक्षो वा स्यात् , नं तृतीयः। न हि मित्रावरुपयोरन्यतरः सोमो भवतुमर्हति । तत्र पक्षेन्यतर शब्दवाच्येऽनन्वयः। न हि शब्दाख्यः पक्षः धर्मी धर्म्यन्तरे वर्तते। सपक्षे स्वन्यतमाभिधेये पक्षधर्मता नास्ति। न ह्याकाशादिः सपक्षः शब्दाख्ये मिणि वर्तते ॥
[ भन्यतरत्वं न प्रत्येकमात्रम् ] .. उच्यते-न पक्षत्वादिति हेतुः प्रयुक्तः, सपक्षत्वादिति वा; येनैवं स्यात् ; पक्षसपक्षपोरन्यतरत्वादिति। तच्च द्वयोरपि किमपि साधा रणं रूपम् । न है 'वरुणो यष्टव्यः' इति यादृशी बुद्धिः, तादृश्येव 'मित्रावरुणयोरन्यतरो यष्टव्यः' इति । विशेषनिष्ठतायां तु बलादापाद्यमानायां सकलानुम् नोच्छेदः। न चान्यतरत्वं शब्दमात्रारोपितं रूपमवास्तवमिति वदितु चितं अिर्थासंस्पशितायाः प्रतिक्षिप्तत्वात् ।।
* उभयानुगतं वल्वन्यतरत्वम् , न प्रत्येकमात्रस्वरूपम् ॥ + अस्य 'शब्दानाम्' इत्यादिः ॥
1 तथश्च-ख