________________
618
न्यायमञ्जरी मसंभवात् सोऽपि न कथं हेतुः ? अस्त्विति चेत्-न-वस्तुनः द्वैरूप्यानुपपत्तेः। एवमिमौ हेतू पक्षद्वयेऽपि बुद्धि जनयन्तौ संशयमावहतः, नानैकान्तिकवत् विपक्षवृत्तित्वेनेति हेत्वाभासान्तरत्वम् ॥
एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि क्रियते तदपि भवतु। न पुनरनकान्तिकप्रभेदतामवलम्बते, तल्लक्षणासंस्पर्शात् । उभयप्रतीतिजनको हीमौ हेतू भवतः, नोभयपक्षवृत्तीति ॥
[सप्रतिपक्षस्य बाधाद्वैलक्षण्यम् ] नाप्ययं कालात्ययापदिष्टः, प्रत्यक्षागमयोरन्यतरस्यापि बाधकस्यानु पलम्भात् । अनुमानं तु नानुमानस्य बाधकं भवितुं क्षममित्युक्तम् । न चेतरेतरवाद्यपेक्षयाउनयोरसिद्धत्वमभिधेयम् , संशयजनकत्वेनभवसिद्धे सति विशेषानुपलब्धरप्रत्याख्येयत्वात् ॥
[ सप्रतिपक्षस्थले परस्परप्रतिघातासंभवः] ननु ! निश्चितस्य साधनप्रयोगाधिकारात् 'कथंचित्तावत्' साधनं प्रयुंजीत। निश्चितत्वे च *तद्धर्मानुपलब्ध्योः परस्परमसिंधत्त्वं स्थितमेव-नैतदेवम् – अन्यतरधर्मानुपलब्धेरेव पक्षधर्मत्वान्वयव्यतिरेकात् पश्यन्नसौ निश्चिततां प्राप्तः, न द्वितीयधर्मानुपलब्धः असिद्धतां बुद्ध्यमानः। अत एव भ्रान्तिमूल एष हेत्वाभासः। द्वितीयधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग्घेतुरेव स्यात् । तदसिध्धत्वानवधारणेऽप्यसौ स्वस्य हेतोस्त्ररूप्यदर्शनात् निश्चितमतिर्भूत्वा साधनं प्रयुंजान इतरेण तथैव
*नित्यधर्मानुपलब्ध्यनित्यधर्मानुपलब्ध्योरित्यर्थः ॥
1 कथं चिन्तावान्-ख,
मां-ख, . ३ ल-ख.