________________
611
एकादशमाह्निकम्
विरुद्धस्तु विपर्ययसाधन इति भवन्त एव प्रतिपन्नाः॥
संशयजनकस्त्वनैकान्तिको भवितुमर्हति । न तु पारिभाषिकविपक्ष वृत्तित्वमेव तस्य लक्षणमुचितम्। उभयमपि चान्यतरपक्षनियमविरहिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति त्रय एवं हेत्वाभासाः ॥
[सप्रतिपक्षस्यातिरिक्तत्वसाधनम् ] उच्यते-न फलनियमेन लक्षणनियमः कर्त शक्यते । यद्यपि द्विविधं त्रिविधं भवत्यप्रमाणफलम् ; तथापि न त्रिलक्षणके लिङगेऽविनाभावः परिसमाप्यते,* अपि तु. पंचलक्षणक इति प्रसाधितोऽयमर्थः। तद्वैकल्याच्च हेत्वाभासानामपि पंचत्वमेव । फलं तु द्विविधमस्तु, त्रिविधं वा। न ह्यप्रतिपत्तिजनक किंचिल्लिङगमुपलभामहे । न चाप्रतिपत्तिः प्रयत्नजन्या, प्रागभावस्य निसर्गसिद्धत्वात्-इत्यलमवान्तरचिन्तनेन ॥
[सप्रतिपक्षस्यानेकान्तिकवैलक्षण्यसू] न फलापेक्षः लिङगलक्षणनियमः। तत्र यथा पक्षधर्मरहितत्वम. सिदधल'क्षणम् , एवं व्यतिरेकवैकल्यं अनैकान्तिकलक्षणम्। एष च हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल इति कथमनै कान्तिकतां प्रतिपद्येत । व्यस्ततायां हि सर्वाण्येतानि सन्ति लक्षणानि । समस्त स्तु नोपन्यस्त एव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति ॥
[सप्रतिपक्षस्य संशयजनकत्वम् ] ननु ! यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति, कथं तहि न हेतुरेवायम्। इतरस्यपि पक्षधर्मान्वयव्यतिरेकाणां निरपवादाना
*तदा हि हेत्वाभासानामैक्यमपि स्यात् विजयरूपैककार्यकारिख्वात् ॥ 1 को वि-ख, वप-ख, स-ख, क्ष-ख.