________________
616
न्यायमञ्जरी विशेषानुपलब्धेः साधनतां बद्ध्वा प्रत्यवस्थानं च करोतीति 'स्व'प्रतिपत्तिसाक्षिक एवैष प्रकरणसमो हेत्वाभासः॥
[सप्रतिपक्षस्य इतरवैलक्षण्यम् ] तथा च न तावदयं सम्यग्घेतुः, प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थान. सामर्थ्यशून्यत्वात्। हेत्वाभासोऽपि भवन् न तावदसिद्धः, साध्ये धमिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः सद्भावात् । नापि विरुद्धः, साध्य, विपर्ययसाधननिमित्तभूतसपक्षवृत्त्यवियोगानुपपत्तेः। नाप्यनैकान्तिकःपक्षद्वयसाधारणत्वानवधारणात् । संशयजनकत्वं तु न तस्य लक्षण मित्युक्तमेव ॥
[सप्रतिपक्षस्यानतिरिक्तवाक्षेपः] ननु ! एकस्मिन् पक्षे नियतः ऐकान्तिक, तद्विपर्ययादनकातिकः । स चायं नित्यानित्यपक्षयोरन्यतरत्रापि न नियत इति अनेकान्तिक एव स्यात् । अपि चाहुः'अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः' ।
(श्लो. वा. 1-1-2 श्लो 54) इति । तत्र यथा इन्दियादेरबोधकत्वाद्वा संशयविपर्ययस्वभावावभा. ससमुत्पादनदौरात्म्याद्वा भवत्यप्रामाण्यव्यवहारः, एवमनुमानमपि 'तेनैव वर्त्मना प्रमाणाभासतामवलम्बते ॥
[हेस्वाभासत्रैविध्याक्षेपः] तत्रासिद्धस्तावदलभमानो धर्मिणि वृत्ति तत्र साध्यधर्मधियमाधातु मनधिकृत इत्यज्ञानफलत्वादप्रामाण्यफलमनुभवति ।।
___1 स-ख,
५ क्ष-ख,
५ एक ए-च,
तथै-ख.