SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ 615 'एकादशमाह्निकम् एव हि विरुद्धाव्यभिचारी निरस्तः। अनुमानविरुद्धमनुमानं च नेष्यत एव । तत्कुतः सप्रतिपक्षी हेत्वाभासः? अतश्च लक्ष्याभावात् कस्येदं लक्षणमि त्यत्रा' ह–यस्मादित्यादि ॥ [सूत्रध्याख्यानम् ] . विचार्यमाणौ प्रांगुक्तलक्षणकौं पक्षपतिपक्षी प्रकरणम् । तस्य चिन्ता संशयात् प्रभृत्यानिर्णयात् यद्यपि भवति, तथापीह विमर्शात्मिकैव गृह्यते । सा यस्मात् भवति ॥ ___ कस्माच्च सा.भवति ? विशेषानुपलम्भात् । स एव विशेषानुपलम्भः यदि निर्णयार्थमुपदिश्यते, तत्प्रकरणमनतिवर्तमानत्वात् प्रकरणसमो भवति । नित्यः शब्दः, अनित्यधर्मानुपलब्धः, आकाशवत् । अनित्यः शब्दः, नित्यधर्मानुपलब्धेः, घटवत्-इति। सोऽयं सप्रतिपक्षी हेतुरिह लक्ष्यो विद्यते ॥. . . [ विरुद्वहेतुद्वयासमावेशेऽपि तथा प्रयोगः ] ____ न च द्व्यात्मकानि वस्तूनि, प्रमातारस्तु रूपमेषां नियतमवधारयितु मशक्नुवन्त एवं भ्राम्यन्तीति ॥ तथा हि-ए कस्तद्विशेषानुपलब्धः पक्षधर्मान्वयव्यतिरेकात्पश्यंस्तथेति साध्यं बुध्येत, तथैव परं प्रत्याययेदिति । इतरोऽपि द्वितीय- - *. उभयोस्तुल्यबलत्वात् । अन्यतरस्याधिकबलत्वे तु, यत्प्रयुक्ता तस्याधिकबलता. तेनैवानुमानबाधो युक्तः ॥ + नन्वेवं सद्धेतावपि सप्रतिपक्षप्रसङ्ग इति चेत्-सत्यग-तत्र भ्रममूलकत्वोद्भा वनेनैव वादिनो जयः॥ 1 त्याशङ्कया-ख, २ को वि-ख, 3 वय-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy