SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ 614 न्यायमञ्जरी साध्यविपर्ययसाधन एव विरुद्ध उच्यते, न तु पूर्वाभ्युपगतस्वसिद्धान्त विरुद्धः* ॥ [ उक्तपक्षस्य सूत्राननुगुणत्वम् ] . न च निरभिप्राय एव सूत्रकृता क्त्वानिर्देशः कृतः, किन्तु ततः प्रतीय. मानमानन्तर्यमप्यपेक्षमाणेन । यो हि सिद्धान्तमभ्युपेत्य प्रतिज्ञाय तत्सिध्ययर्थतयोपादीयमानः तमेव विरुणद्धि, स विरुद्धो हेत्वाभास इति प्राक्तनमेव व्याख्यानमनवद्यम् ॥ अतः प्रतिज्ञाविपरीतसाधनात् विरुद्धतामेति न हेतुरन्यथा । विशेषबाधादिनिबन्धनं पुनः बहुप्रकारत्वमसुष्य नेष्यते ! . [सप्रतिपक्षलक्षणम् ] यस्मात् प्रकरणचिन्ता स निर्णयार्थमुपदिष्टः प्रकरणसमः ___. ॥१-२-७ ॥ एककलक्षणापायनिमित्तहेत्वाभासपंचकप्रतिज्ञानात् , असत्प्रतिपक्ष त्वलक्षणवैकल्यात् किल प्रकरणसमो नाम हेत्वाभासो वक्तव्यः। स च न संभवति, सप्रतिपक्षस्य हेतोरभावात् । अव्यात्मकत्वाद्धि वस्तूनामे कत्र परस्परविरोधिधर्मद्वयप्रयोजकहेतुसमावेशो नास्तीत्यसकृदुक्तम् । अत ___ * भाष्यं तु एतद्विषये तटस्थमिति भावः ॥ 1 त-च, 'म-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy