________________
613
एकादशमाहिकम् ते चैवं व्याख्यायमाने न संगृहीताः स्युः। क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम् । तस्मादभ्युपगतसिद्धान्तविरोधी इति सूत्रार्थे वणिते, अभ्युपगतं सिद्धान्तं यो विरुणद्धि, स विरुद्धः। तत्कालोपात्त प्रतिज्ञाविषयीकृतं वाऽवसरान्तरव्यवस्थापितं वेत्ये तत्संग्रहश्च कृतो भविप्यति । सिद्धान्तशब्दश्च न सडकोचितो भविष्यति। क्त्वाप्रत्ययस्तु असङगतत्वादुपेक्ष्यत एव, भिन्नकर्तृकत्वात् आनन्तर्यस्य गम्यमानस्य चानुपयुक्त त्वादिति ॥
[एतस्पक्षस्य भाष्यानुगुणस्वम् ] तथा च भाष्यकारेण अविशेषेग पूर्वाभ्युपगतसिद्धान्तविरुद्ध'. मेवोदाहरणमुक्तं . 'सोऽयं विकारो व्यक्तेरपैति, नित्यत्वप्रतिबंधात् * । अपेतोऽप्यस्ति विनाशप्रतिषेधात्' इति । अत्र हि प्रति षिद्ध नित्यधर्मत्वादित्ययं हेतुः व्यक्तेरपेतोऽपि विकारोऽप्यस्तीत्यमुं सिद्धान्तं विरुगदि अनेन वा विरुद्धयत इति ॥
[ उक्तपक्षेऽस्वारस्यम् ] : एतत्त्वहृदयङगममिव व्याख्यानम् । अपसिदधान्तप्रतिज्ञाविरोधादेः निग्रहस्थानसूत्रे हेत्वाभासेभ्यः पृथगुपदेशात् किमिह तत्सङग्रहेण । प्रत्युत, सङग्रह एव दोषः। यो हि 'मीमांसकोऽहम्' इत्यभ्युपगम्य 'अनित्यः शब्दः, कृतकत्वात् , घटवत्' इति ब्रूयात्, न तस्यायं हेतुः विरुधो भवेत् , अपि तु अपसिद्धान्तनवासौ निगृह्येत। तस्मात्
*नित्यत्वप्रतिषेधे हि विकार आवश्यकः। अत: परस्परविरुद्धं तत् ॥
३ ण-ख;
न्तानुगुण-ख,
1वं त-च, षेधस्या-च,
ज्यमान-च, न्तात्-ख.