________________
612
न्यायमञ्जरी
परोक्तविरुद्ध विभागस्यायुक्तता] अत एवं यथा तीर्थान्तरे वर्ण्यते-विरुद्धश्चतुष्प्रकार;-- *धर्मस्वरू. पविपरीतसाधनः, धमिस्वरूपविपरीतसाधनः, धर्मविशेषविपरीतसाधनः,
मिविशेषविपरीतसाधन इति । तथेह नेष्यते, अतिप्रसङगस्य दर्शित त्वात् इति। अस्योदाहरणं-'नित्यः शब्दः, कृतकत्वात्' इत्यादि ।
[विरुद्धस्य व्यभिचारिवलक्षण्यम् ] ननु ! एक कलक्षणापायात पंच हेत्वाभासा इत्युक्तम्। अस्य च हेतोरुभे लक्षणे न स्तः। यथा ह्यस्य सपक्षे वृत्ति स्ति, तथा विपक्षादपि व्यावत्तिः। यदि हि सपक्षादिव विपक्षादपि व्यावृत्त ए'ष' भवेत् गन्धः वत्त्ववदसाधारण एव स्यादिति-सत्यमेवम् विपक्षादव्यावृत्तिः व्यभिवारं प्रति प्रयोजकता प्रतिपद्यते। प्रतिपक्षगामी हि व्यभिचरित इत्युच्यते । सपक्षे वृत्तिविच्छेदस्तु विपर्ययसिद्धौ प्रयोजक इति सत्यामपि विपक्षवृत्तौं सपक्षवृत्तिविच्छेदनिबन्धनमेवास्य विरुद्धत्वमुच्यते। विपक्षादप्रच्युतः स्वसाध्यमेव न साधयेत् । सपक्षे त्ववर्तमानोऽसौ विपरीतमपि साधयतीति तल्लक्षणापायकृतमेवास्य विरुद्धत्वमाचक्षत इत्यलं सूक्ष्मेक्षिकया। तदि'द मुक्तं 'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः' इति । '
[अपसिद्धान्तादीनां विरुद्धरूपत्वपक्षः] अन्ये त्वन्यथा व्याचक्षते-किल साध्यधर्मविपर्ययसाधकवत् अप सिद्धान्तप्रतिज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः संगृहीतुं युक्ता एव ।
* धर्म-साध्यः। धर्मों-पक्षः। + द्वितीयस्य 'शब्दः। गुणः, चाक्षुषत्वादित्यादि।
* व्यभिचारी तु न सपक्षानियमेन घ्यावृत्तः । साधारणः रूलु सः। एवं विरुद्धप्रयोगे अज्ञानातिशयः सूच्यते ॥
'व-ख,
स्थ-खः