________________
एकादशमाह्निकम्
हेतु:' इति भित्रककतृत्वमुच्य' ते - उच्यते ' समानकर्तृकत्व सिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते । हेतुबलात् पुरुषेणाभ्युपगमः क्रियमाणः हेतुनव कृतो भवति । एवं च स एवाभ्युपगन्ता, स एव विरुणद्धीति न भिन्नकर्तृकत्वम् ॥
ननु ! उपचारपरिग्रहश्चेदभिमतः, तदत्र त्रितयं वक्तव्यम् - मुख्ये - sर्थे प्रमाणबाधः, निमित्तम्, प्रयोजनं चेति । 'मुख्ये 'sर्थे प्रमाणबाधः, उक्त एव हेतोरचेतनत्वम् । निमित्तमप्यस्ति हेतुसाधनको ह्यभ्युपगम* इति । प्रयोजनं तु विशेषविरुद्धानां हेत्वाभासत्वनिवारणम् ॥
सिद्धान्तशब्दस्यापि समुदायवाचिनः यदेकदेशेऽवस्थापनं, तस्यापि विशेषविरु द्धव्यवच्छेद एव फलम् ॥
[ विशेषविरुद्धस्य न हेत्वाभासता ]
विशेषविरुद्धानां हि हेत्वाभासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङः ग न हि तथाविधो हेतुरिह जगति कश्चिदवाप्यते, यः साध्यसिद्धयेऽभिधीयमानः धर्मस्य वा धर्मिणो वा विशेषं न कंचन बाधते । तथाहि'अनित्यः शब्दः, कृतकत्वात्' इति सकलतार्किकगृहप्रसिद्ध ए'ष' हेतुः अनित्यतां साधयन्नपि 'यद्यत्कृतकम्, तत्तदश्रावणं दृष्टम् । यो यः कृतक स स व्योमविशेषगुणो न भवति इति धर्मिणो विशेषं बाधत एवेत्यहेतुः स्यात् । न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासः अभ्युप न्तव्यः; किन्तु साध्यस्वरूपविपर्ययसाधन एवेति ॥
* 'हेतुबलाद्धि पुरुषेणाभ्यपगमः' इत्यनुपदमेवोक्तम् ॥ * विशेषविरुद्धा: - अनुपदं प्रदर्श्यन्ते ॥
* 'कंचन विशेषम्' – इत्यन्वयः ॥
ः साध्ये - ख.
611
1
ते - ख, घ, च,
3
व - ख.