________________
610
न्यायमरी
ऽयम् । अतः असाधारण विरुद्धाव्यभिचारिणोः कथंचित्संशयहेतुत्वेऽपि पक्षद्वयवृत्त्यभावत् नानैकान्तिकवर्गेऽन्तर्भावः । क्व तर्हि तावन्तर्भविष्यतः ? जात्युत्तराणामानन्त्यात् तेष्विति वक्ष्यामः ॥
तस्मादसाधारणसंज्ञकस्य
तोविरुद्धाव्यभिचारिणो वा ।
विपक्षवृत्तित्वमतर्कयन्तः
वदन्त्यनैकान्तिकतां न तद्ज्ञाः ॥
[ विरुद्ध लक्षणम् ] सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ १-२-६ ।।
सपक्ष विपक्षयोः वृत्त्यवृत्ती हेतोर्लक्षणम् । ते यस्य विपर्यस्ते दृश्येर्ते, यः सपक्षे न वर्तते, विपक्षे च वर्तते, सः साध्यविपर्ययसाधनात् विरुद्धों भवति ; सोऽयमुच्यते - सिद्धान्तमभ्युपेत्येति ।
*
सिद्धान्तशब्दः यद्यपि धर्मविशिष्टे धर्मिणि व्याख्यातः, अयमित्थ मित्यभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति - तथापीह तदेकदेशसाध्यधर्मविषयो लक्ष्यते * । तं सिद्धान्तं साध्यधर्ममभ्युपगम्य यो विरुणद्धि - व्याहन्ति' - तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः ॥
[ सूत्रार्थवर्णनम् ]
ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते । इह च हेतोर * चेतनस्याभ्यु पगमेन कर्तृत्वासंभवात् पुरुषस्तत्कर्ता भवेत् । 'सिद्धान्तं च विरुणद्धि
वस्तुस्वरूप दृष्ट्या अन्तत्वं सिद्धं विवाक्षितमिति भाव: ॥
1 ब्दोऽपि यदि-ख,
रति - च
2