________________
609
एकादशमाह्निकम् इति । इन्द्रियजप्रमितिविषयो ह्यर्थः प्रत्यक्षो भवति। स एष वायुः यदीन्द्रियजे प्रत्यये प्रतिभात्येव, 1किमनुमानेन। अथ तत्र न प्रतिभाति तथापि कि'मनुमानेनेति ॥
__ [विरुद्धाव्यभिचारिणोऽप्रयोजकत्वम् ] किंच अनयोरन्यतरो हेतुः अवश्यमप्रयोजकः, वस्तुनः द्वैरूप्यानुपपत्तेः। हेतौ च प्रयुक्ते तद्गुणदोषपरीक्षणमेव प्रतिवादी विधत्ताम्, कोऽवसरः प्रतिहेतूपन्यासस्य। विडम्बनार्थस्तदुपन्यास इति चेत्-न-विडम्बनोपन्यासस्य जात्युत्तरप्रकारत्वात् । इह च हेत्वाभासाः *वास्तवा एवानुमानदोषाः। एकत्र प्रयोजकवृद्धहेतुद्वयसमावेशासंभवस्योक्तत्वात्। कथं तहि प्रकरणसम इति चेत्, तत्रैव विशेषं वक्ष्यामः ॥
[विरुद्धाव्यभिचारिणः विप्रतिपत्तिरूपत्वं वा] अथ हेतुप्रयोगरहितोभयवादिपरिगहीतपक्षप्रतिपक्षोपन्यासीमानं विरुद्धाव्यभिचारिणो रूपमुच्यते, सोऽयं विप्रतिपत्तेः संशयो भवति, न हेत्वाभासादस्मादिति ॥ ___ अपि च, यदि संशयजनकत्वं अनैकान्तिकलक्षणमुच्येत-काममसाधारणस्य वा विरुद्धाव्यभिचारिणो वा यथा तथा संशयहेतुतामधिरोप्य 'कथ्यतामनकान्तिकता, न तु संशयजनकत्वं तल्लक्षणम्, इन्द्रिया देरपि तज्जनकत्वेन तथाभावप्रसक्तेः। अपि तु पक्षद्वयवृत्तित्वमनैकान्ति कलक्षणम् । स तु पक्षद्वयवृत्तित्वात् संशयमपि जनयतीति वस्तुस्वभावो
* वास्तवाः-वस्तुगताः,-हेतुगताः॥ . प्रतिज्ञामात्रमिति यावत् । प्रकरणसमे तु हेतुप्रयोग आवश्यकः॥
1 कि-ख,
सं-ख,
नं-ख,
तन्य-च..
39