________________
608
न्यायमञ्जरी . [असाधारणानैकन्तिको नातिरिक्तः ]
ननु ! साधारणवदनाधारणस्यापि गन्धवत्त्वादेः संशयहेतुत्वदर्शनात कथमसंभवः ? अनेकधर्मोपपत्तेश्च संशयः भवद्भिरपि व्याख्यात एव-नैत. देवम्-उभयविशेषसहचरितधर्मदर्शनं हि तदनुस्मरण युक्तेन' संशयमुपजनयति। असाधारणस्तु असाधारणत्वादेव न तत्सहवरः कदाचिदुपलब्ध इति कथं संशयहेतुः ?
कथं तहनेकधर्मोपपत्तेरिति वर्ण्यते ? वणितमेतत्। वस्तुनो हि विशेषधर्मः कश्चिदसाधारणः केनापि धर्मान्तरेण सहचरितो दृष्टः, सोऽय. शब्दे विभागजत्वाख्यो धर्मः केनचिद्धर्मान्तरेण द्रव्यत्वेन गुणत्वेन वा सह- . चरितो भवेदितीत्थमनेकधर्मोपपत्तेः संशयो णितः॥
तदिहापि गन्धवत्त्वमसाधारणमे व यदि संशयहेतुतया वर्ण्यते, तर्हि साधारणात् वस्तुधर्मत्वादेव संशयो भवेत् , नासाधारणात् गन्धवत्त्वात् । न हि तन्नित्यानित्ययोरन्यतरेणापि सहचरितमुपलब्धम्। वस्तुधर्मस्तु धर्मान्तरानुयायी दृश्यत इति वस्तुधर्मत्वमेव तत्कारणम्। अतः 'नित्या भूः, गन्धवत्त्वात्' इत्यसाधारणानकान्तिकः न वक्तव्यः ।।
__ [विरुद्वाव्यभिचारोऽपि नातिरिक्तः ]. विरुद्धाव्यभिचर्यपि न वाच्य एव, एकन मिणि परस्परविरुद्धद्वय. प्रयोजकहेतुद्वयोपनिपातस्यानुपपत्तेः ॥
ननु ! 'प्रत्यक्षो वायुः, स्पर्शवत्त्वात् , घटवत्' 'अप्रत्यक्षो वायुः, अरूपत्वात् , आकाशवत्' इत्यस्ति हेतुद्वयसन्निपातः । त एव च विरुद्धाव्यभिचार्युच्यत इति–अत्र तावत् एतदेव वक्तव्यम्-कोऽयमपूर्वः प्रामा. णिकव्यवहारः ईदृशः, यत् अनुमानेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा साध्यत
1 प्राय-ख,
व-च,
व-ख.